Thursday, January 8, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २३ ;;; Part – 23)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 23)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

75

तोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः |
अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम् || १||

यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः |
नेदानीइमुपनिर्हार.म् रावंओ दातुमर्हति || २||

ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः |
लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः || ३||

ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे |
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः || ४||

उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः |
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः || ५||

गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च |
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् || ६||

तेषां गृहसहस्राणि ददाह हुतभुक्तदा |
आवासान्राक्षसानां च सर्वेषां गृहमेधिनाम् || ७||

हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् |
सीधुपानचलाक्षाणां मदविह्वलगामिनाम् || ८||

कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् |
गदाशूलासि हस्तानां खादतां पिबताम् अपि || ९||

शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह |
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः || १०||

तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम् |
अदहत्पावकस्तत्र जज्वाल च पुनः पुनः || ११||

सारवन्ति महार्हाणि गम्भीरगुणवन्ति च |
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च || १२||

रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः |
मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम् || १३||

क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः |
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः || १४||

ज्वलनेन परीतानि तोरणानि चकाशिरे |
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे || १५||

विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः |
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः || १६||

तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि |
वज्रिवज्रहतानीव शिखराणि महागिरेः || १७||

तानि निर्दह्यमानानि दूरतः प्रचकाशिरे |
हिमवच्छिखराणीव दीप्तौषधिवनानि च || १८||

हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि |
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः || १९||

हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश् च तुरगैरपि |
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः || २०||

अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पति |
भीतो भीतं गजं दृष्ट्वा क्व चिदश्वो निवर्तते || २१||

सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी |
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा || २२||

नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः |
स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् || २३||

प्रदग्धकायानपरान्राक्षसान्निर्गतान्बहिः |
सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः || २४||

उद्घुष्टं वानराणां च राक्षसानां च निस्वनः |
दिशो दश समुद्रं च पृथिवीं चान्वनादयत् || २५||

विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ |
असम्भ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे || २६||

ततो विस्फारयाणस्य रामस्य धनुरुत्तमम् |
बभूव तुमुलः शब्दो राक्षसानां भयावहः || २७||

अशोभत तदा रामो धनुर्विस्फारयन्महत् |
भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः || २८||

वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः |
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश || २९||

तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् |
कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि || ३०||

ततो रामशरान्दृष्ट्वा विमानेषु गृहेषु च |
संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत || ३१||

तेषां संनह्यमानानां सिंहनादं च कुर्वताम् |
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत || ३२||

आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना |
आसन्ना द्वारमासाद्य युध्यध्वं प्लवगर्षभाः || ३३||

यश्च वो वितथं कुर्यात्तत्र तत्र व्यवस्थितः |
स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः || ३४||

तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु |
स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् || ३५||

तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश |
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत || ३६||

स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ |
प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह || ३७||

शशास चैव तान्सर्वान्राक्षसान्राक्षसेश्वरः |
राक्षसा गच्छतात्रैव सिंहनादं च नादयन् || ३८||

ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः |
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः || ३९||

भीमाश्वरथमातङ्गं नानापत्ति समाकुलम् |
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् || ४०||

तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् |
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् || ४१||

हेमजालाचितभुजं व्यावेष्टितपरश्वधम् |
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् || ४२||

गन्धमाल्यमधूत्सेकसंमोदित महानिलम् |
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् || ४३||

तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् |
सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च || ४४||

जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत् |
अभ्ययात्प्रत्यरिबलं पतङ्ग इव पावकम् || ४५||

तेषां भुजपरामर्शव्यामृष्टपरिघाशनि |
राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत || ४६||

तथैवाप्यपरे तेषां कपीनामसिभिः शितैः |
प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः || ४७||

घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् |
गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत् || ४८||

देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः |
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे || ४९||

समुद्यतमहाप्रासं मुष्टिशूलासिसङ्कुलम् |
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् || ५०||

वानरान्दश सप्तेति राक्षसा अभ्यपातयन् |
राक्षसान्दशसप्तेति वानरा जघ्नुराहवे || ५१||

विस्रस्तकेशरसनं विमुक्तकवचध्वजम् |
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् || ५२||

52

2351

King Sugreeva asks Shri Hanuman for setting ablaze the City of Lanka. With torches in their hands, some vanaras set fire in all parts of Lanka. 

Regaining their health, Shri Rama and Lakshmana readied themselves with their bows to resume fighting. Main gate of that City, looking like a peak of Mount Kailasha, was tumbled down, shattered, to the ground by Shri Rama's arrows.

Enraged Ravana sends Kumbha and Nikumbha, the sons of Kumbhakarna, along with his army to the battle. A tumultuous fighting ensued between the vanaras and the demons.

76

प्रवृत्ते सङ्कुले तस्मिन्घोरे वीरजनक्षये |
अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः || १||

आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः |
गदया कम्पनः पूर्वं स चचाल भृशाहतः || २||

स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः |
अर्दितश्च प्रहारेण कम्पनः पतितो भुवि || ३||

हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा |
जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः |
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् || ४||

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः |
मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् || ५||

तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् |
विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा || ६||

आकर्णकृष्टमुक्तेन जघान द्विविदं तदा |
तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा || ७||

सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् |
निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः || ८||

मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे |
अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् || ९||

तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः |
बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः || १०||

सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् |
आजघान महातेजा वक्षसि द्विविदाग्रजम् || ११||

स तु तेन प्रहारेण मैन्दो वानरयूथपः |
मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः || १२||

अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ |
अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् || १३||

तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः |
त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः || १४||

सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् |
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः || १५||

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते |
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह || १६||

स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः |
कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् || १७||

आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् |
भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् || १८||

अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते |
सालमासन्नमेकेन परिजग्राह पाणिना || १९||

तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् |
समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् || २०||

स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः |
अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च || २१||

अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे |
दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् || २२||

रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे |
व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः || २३||

ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् |
अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् || २४||

ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः |
रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः || २५||

जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः |
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः || २६||

समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् |
आववार शरौघेण नगेनेव जलाशयम् || २७||

तस्य बाणचयं प्राप्य न शोकेरतिवर्तितुम् |
वानरेन्द्रा महात्मानो वेलामिव महोदधिः || २८||

तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् |
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः || २९||

अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे |
शैलसानु चरं नागं वेगवानिव केसरी || ३०||

उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् |
अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाबलः || ३१||

तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् |
कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः || ३२||

अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः |
आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः || ३३||

द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् |
वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे || ३४||

निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान् |
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् || ३५||

अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् |
अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् || ३६||

निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् |
संनतिश्च प्रभावश्च तव वा रावणस्य वा || ३७||

प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम |
एकस्त्वमनुजातोऽसि पितरं बलवत्तरः || ३८||

त्वामेवैकं महाबाहुं शूलहस्तमरिन्दमम् |
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः || ३९||

वरदानात्पितृव्यस्ते सहते देवदानवान् |
कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् || ४०||

धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च |
त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः || ४१||

महाविमर्दं समरे मया सह तवाद्भुतम् |
अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव || ४२||

कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् |
पातिता हरिवीराश्च त्वयैते भीमविक्रमाः || ४३||

उपालम्भभयाच्चापि नासि वीर मया हतः |
कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् || ४४||

तेन सुग्रीववाक्येन सावमानेन मानितः |
अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत || ४५||

ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च |
आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना || ४६||

तस्य चर्म च पुस्फोट सञ्जज्ञे चास्य शोणितम् |
स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले || ४७||

तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः |
वज्रनिष्पेषसञ्जातज्वाला मेरौ यथा गिरौ || ४८||

स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः |
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः || ४९||

अर्चिःसहस्रविकचं रविमण्डलसप्रभम् |
स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् || ५०||

मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः |
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया || ५१||

कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना |
बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः || ५२||

तस्मिन्हते भीमपराक्रमेण
प्लवङ्गमानामृषभेण युद्धे |
मही सशैला सवना चचाल
भयं च रक्षांस्यधिकं विवेश || ५३||

53

2404

Angada kills Kampana and Prajangha. Demon Shonitaksha dies in the hands of Dvivida and Yupaksha at the hands of Mainda. 

Kumbha, the son of Kumbhakarna, single-handedly withstands the onslaught of Vanaras, and make Angada, Mainda, Dwivida unconscious, by discharging arrows swiftly. 

Sugreeva praises the skill and valour of Kumbha and a severe one-to-one combat ensues between Sugreeva and Kumbha.  Finally, Sugreeva kills Kumbha with a heavy blow.

इत्यार्षे श्री रामायणे युद्धकाण्डे त्रयोविंशतिः भाग:

 

Yuddhakāṇḍa Part-22

Yuddhakāṇḍa Part-24

No comments:

Post a Comment