Thursday, January 8, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २४ ;;; Part – 24)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २४ ;;; Part – 24)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

77

निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् |
प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत || १||

ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् |
आददे परिघं वीरो नगेन्द्रशिखरोपमम् || २||

हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् |
यमदण्डोपमं भीमं रक्षसां भयनाशनम् || ३||

तमाविध्य महातेजाः शक्रध्वजसमं रणे |
विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः || ४||

उरोगतेन निष्केण भुजस्थैरङ्गदैरपि |
कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया || ५||

निकुम्भो भूषणैर्भाति तेन स्म परिघेण च |
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् || ६||

परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः |
प्रजज्वाल सघोषश्च विधूम इव पावकः || ७||

नगर्या विटपावत्या गन्धर्वभवनोत्तमैः |
सह चैवामरावत्या सर्वैश्च भवनैः सह || ८||

सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् |
निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् || ९||

दुरासदश्च सञ्जज्ञे परिघाभरणप्रभः |
क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः || १०||

राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् |
हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली || ११||

परिघोपमबाहुस्तु परिघं भास्करप्रभम् |
बली बलवतस्तस्य पातयामास वक्षसि || १२||

स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः |
विशीर्यमाणः सहसा उल्का शतमिवाम्बरे || १३||

स तु तेन प्रहारेण चचाल च महाकपिः |
परिघेण समाधूतो यथा भूमिचलेऽचलः || १४||

स तथाभिहतस्तेन हनूमान्प्लवगोत्तमः |
मुष्टिं संवर्तयामास बलेनातिमहाबलः || १५||

तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् |
अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः || १६||

ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् |
मुष्टिना तेन सञ्जज्ञे ज्वाला विद्युदिवोत्थिता || १७||

स तु तेन प्रहारेण निकुम्भो विचचाल ह |
स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् || १८||

विचुक्रुशुस्तदा सङ्ख्ये भीमं लङ्कानिवासिनः |
निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम् || १९||

स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि |
आजघानानिलसुतो वज्रवेगेन मुष्टिना || २०||

आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत |
हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः || २१||

निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च |
उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् || २२||

परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् |
उत्पाटयामास शिरो भैरवं नदतो महत् || २३||

अथ विनदति सादिते निकुम्भे
पवनसुतेन रणे बभूव युद्धम् |
दशरथसुतराक्षसेन्द्रचम्वोर्
भृशतरमागतरोषयोः सुभीमम् || २४||

24

2428

Seeing his brother Kumbha killed in battle, the enraged Nikumbha roared and attacked the vanaras with an iron club. As no one was able to withstand that attack, Shri Hanuman comes forward and attacks Nikumbha. In a duel that ensued, Shri Hanuman pounds his chest with his fist, catches his head and kills him by tearing his head off.

78

निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् |
रावणः परमामर्षी प्रजज्वालानलो यथा || १||

नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः |
खरपुत्रं विशालाक्षं मकराक्षमचोदयत् || २||

गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः |
राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ || ३||

रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः |
बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः || ४||

सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् |
निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली || ५||

समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् |
रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् || ६||

तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः |
स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् || ७||

प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः |
सूतं सञ्चोदयामास शीघ्रं मे रथमावह || ८||

अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् |
यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः || ९||

अहं राक्षसराजेन रावणेन महात्मना |
आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ || १०||

अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः |
शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः || ११||

अद्य शूलनिपातैश्च वानराणां महाचमूम् |
प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः || १२||

मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः |
सर्वे नानायुधोपेता बलवन्तः समाहिताः || १३||

ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः |
मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः || १४||

परिवार्य महाकाया महाकायं खरात्मजम् |
अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुन्धराम् || १५||

शङ्खभेरीसहस्राणामाहतानां समन्ततः |
क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् || १६||

प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा |
पपात सहसा चैव ध्वजस्तस्य च रक्षसः || १७||

तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः |
चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः || १८||

प्रवाति पवनस्तस्य सपांसुः खरदारुणः |
निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः || १९||

तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः |
अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ || २०||

घनगजमहिषाङ्गतुल्यवर्णाः
समरमुखेष्वसकृद्गदासिभिन्नाः |
अहमहमिति युद्धकौशलास्ते
रजनिचराः परिबभ्रमुर्नदन्तः || २१||

21

2449

Then, Ravana ordered Makaraksha, the son of Khara, to lead their army and to kill Shri Rama, Lakshmana and the vanaras. Makaraksha, alongwith his army of demons, set out to the battlefield. Though he and his army experiences many evil portents, Makaraskha's army march forward disregarding those portents.

79

निर्गतं मकराक्षं ते दृष्ट्वा वानरपुङ्गवाः |
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः || १||

ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम् |
निशाचरैः प्लवङ्गानां देवानां दानवैरिव || २||

वृक्षशूलनिपातैश्च शिलापरिघपातनैः |
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः || ३||

शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः |
पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः || ४||

पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा |
कदनं कपिसिंहानां चक्रुस्ते रजनीचराः || ५||

बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः |
सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः || ६||

तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः |
नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः || ७||

विद्रवत्सु तदा तेषु वानरेषु समन्ततः |
रामस्तान्वारयामास शरवर्षेण राक्षसान् || ८||

वारितान्राक्षसान्दृष्ट्वा मकराक्षो निशाचरः |
क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् || ९||

तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते |
त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः || १०||

यत्तदा दण्डकारण्ये पितरं हतवान्मम |
मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते || ११||

दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव |
यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने || १२||

दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह |
काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः || १३||

अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः |
ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि || १४||

बहुनात्र किमुक्तेन शृणु राम वचो मम |
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे || १५||

अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे |
अभ्यस्तं येन वा राम तेन वा वर्ततां युधि || १६||

मकराक्षवचः श्रुत्वा रामो दशरथात्मजः |
अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् || १७||

चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः |
त्रिशिरा दूषणश्चापि दण्डके निहता मया || १८||

स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः |
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः || १९||

एवमुक्तस्तु रामेण खरपुत्रो निशाचरः |
बाणौघानसृजत्तस्मै राघवाय रणाजिरे || २०||

ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा |
निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः || २१||

तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा |
खर राक्षसपुत्रस्य सूनोर्दशरथस्य च || २२||

जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा |
धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे || २३||

देवदानवगन्धर्वाः किंनराश्च महोरगाः |
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् || २४||

विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् |
कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे || २५||

राममुक्तास्तु बाणौघान्राक्षसस्त्वच्छिनद्रणे |
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः || २६||

बाणौघवितताः सर्वा दिशश्च विदिशस्तथा |
सञ्चन्ना वसुधा चैव समन्तान्न प्रकाशते || २७||

ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः |
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः |
भित्त्वा शरै रथं रामो रथाश्वान्समपातयत् || २८||

विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः |
अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना |
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् || २९||

विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः |
स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे || ३०||

तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् |
बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः || ३१||

सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः |
व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि || ३२||

तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा |
साधु साध्विति भूतानि व्याहरन्ति नभोगताः || ३३||

तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः |
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् || ३४||

स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः |
पावकास्त्रं ततो रामः सन्दधे स्वशरासने || ३५||

तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे |
सञ्चिन्नहृदयं तत्र पपात च ममार च || ३६||

दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् |
लङ्कामेव प्रधावन्त रामबालार्दितास्तदा || ३७||

दशरथनृपपुत्रबाणवेगै
रजनिचरं निहतं खरात्मजं तम् |
ददृशुरथ च देवताः प्रहृष्टा
गिरिमिव वज्रहतं यथा विशीर्णम् || ३८||

38

2487

Fierce fight ensues between vanaras and demons. Tormented by the arrows of Makaraksha the vanaras get frightened and begin to run away. Shri Rama intervenes and counters the arrows of Makaraksha.  

Verbal challenges flow from both sides and a fight between Makaraksha and Shri Rama ensues. Finally, Shri Rama shatters Makaraksha’s chariot and by employing astra of AGNI kills him on the spot. The demons get frightened and run away to Lanaka.

80

मकराक्षं हतं श्रुत्वा रावणः समितिञ्जयः |
आदिदेशाथ सङ्क्रुद्धो रणायेन्द्रजितं सुतम् || १||

जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ |
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः || २||

त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे |
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे || ३||

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः |
यज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित् || ४||

जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः |
आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः || ५||

शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः |
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा || ६||

सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः |
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः || ७||

चरुहोमसमिद्धस्य विधूमस्य महार्चिषः |
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च || ८||

प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः |
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः || ९||

हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् |
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् || १०||

स वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः |
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे || ११||

जाज्वल्यमानो वपुषा तपनीयपरिच्छदः |
शरैश्चन्द्रार्धचन्द्रैश्च स रथः समलङ्कृतः || १२||

जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः |
बभूवेन्द्रजितः केतुर्वैदूर्यसमलङ्कृतः || १३||

तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः |
स बभूव दुराधर्षो रावणिः सुमहाबलः || १४||

सोऽभिनिर्याय नगरादिन्द्रजित्समितिञ्जयः |
हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् || १५||

अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने |
जयं पित्रे प्रदास्यामि रावणाय रणाधिकम् || १६||

कृत्वा निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम् |
करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत || १७||

आपपाताथ सङ्क्रुद्धो दशग्रीवेण चोदितः |
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे || १८||

स ददर्श महावीर्यौ नागौ त्रिशिरसाविव |
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ || १९||

इमौ ताविति सञ्चिन्त्य सज्यं कृत्वा च कार्मुकम् |
सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् || २०||

स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ |
अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः || २१||

तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ |
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः || २२||

प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ |
तमस्त्रैः सुरसङ्काशौ नैव पस्पर्शतुः शरैः || २३||

स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः |
दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः || २४||

नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः |
शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते || २५||

घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् |
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः || २६||

स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम् |
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः || २७||

तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ |
हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् || २८||

अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः |
निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः || २९||

अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ |
तानिषून्पततो भल्लैरनेकैर्निचकर्ततुः || ३०||

यतो हि ददृशाते तौ शरान्निपतिताञ्शितान् |
ततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम् || ३१||

रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् |
विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः || ३२||

तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः |
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ || ३३||

नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् |
न चान्यद्विदितं किं चित्सूर्यस्येवाभ्रसम्प्लवे || ३४||

तेन विद्धाश्च हरयो निहताश्च गतासवः |
बभूवुः शतशस्तत्र पतिता धरणीतले || ३५||

लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् |
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् || ३६||

तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् |
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि || ३७||

अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् |
पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि || ३८||

अस्यैव तु वधे यत्नं करिष्यावो महाबल |
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् || ३९||

तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् |
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः || ४०||

यद्येष भूमिं विशते दिवं वा
रसातलं वापि नभस्तलं वा |
एवं निगूढोऽपि ममास्त्रदग्धः
पतिष्यते भूमितले गतासुः || ४१||

इत्येवमुक्त्वा वचनं महात्मा
रघुप्रवीरः प्लवगर्षभैर्वृतः |
वधाय रौद्रस्य नृशंसकर्मणस्
तदा महात्मा त्वरितं निरीक्षते || ४२||

42

2529

When almost all major warriors were killed by Shri Rama’s army, Ravana orders Indrajit to proceed to the battle field. Before proceeding to the battle, Indrajit performed a Vama ritual there, duly making an oblation to the fire and offered live black goat to the fire. A great fire of flames without smoke that appeared indicated his victory. 

Then, he proceeds to the battle-field by remaining invisible and releases incessant arrows towards Shri Rama and Lakshmana.

Lakshmana gets infuriated and states that he would use Brahmastra to eliminate all demons, but Shri Rama stops him saying that for the sake of one demon, all demons should not be punished. 

Struck by the arrows discharged by Indrajit, many vanaras fall down dead. Then, Shri Rama and Lakshmana reflect on the various ways and means to eliminate Indrajit.

इत्यार्षे श्री रामायणे युद्धकाण्डे चतुर्विंशतिः भाग:

 

Yuddhakāṇḍa Part-23

Yuddhakāṇḍa Part-25

 

No comments:

Post a Comment