Thursday, January 8, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २५ ;;; Part – 25)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २५ ;;; Part – 25)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

81

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः |
संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः || १||

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् |
क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः || २||

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः |
इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः || ३||

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ |
रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा || ४||

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा |
बलेन महतावृत्य तस्या वधमरोचयत् || ५||

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः |
हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ || ६||

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः |
उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः || ७||

हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः |
प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् || ८||

स ददर्श हतानन्दां सीताम् इन्द्रजितो रथे |
एकवेणीधरां दीनामुपवासकृशाननाम् || ९||

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् |
रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् || १०||

तां निरीक्ष्य मुहूर्तं तु मैथिलीम् अध्यवस्य च |
बाष्पपर्याकुलमुखो हनूमान्व्यथितोऽभवत् || ११||

अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् |
दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् || १२||

किं समर्थितमस्येति चिन्तयन्स महाकपिः |
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् || १३||

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः |
कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् || १४||

तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः |
क्रोशन्तीं राम रामेति मायया योजितां रथे || १५||

गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः |
दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः |
अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् || १६||

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः |
ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः |
धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी || १७||

नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम |
अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण || १८||

च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली |
किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि || १९||

सीतां च हत्वा न चिरं जीविष्यसि कथं चन |
वधार्हकर्मणानेन मम हस्तगतो ह्यसि || २०||

ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः |
इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे || २१||

इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः |
अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति || २२||

आपतन्तं महावीर्यं तदनीकं वनौकसाम् |
रक्षसां भीमवेगानामनीकेन न्यवारयत् || २३||

स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् |
हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह || २४||

सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः |
तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः || २५||

इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर |
सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् || २६||

न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम |
पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत् || २७||

तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः |
शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् || २८||

यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी |
सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना || २९||

तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह |
मया रामस्य पश्येमां कोपेन च निषूदिताम् || ३०||

ततः खड्गेन महता हत्वा ताम् इन्द्रजित्स्वयम् |
हृष्टः स रथमास्थाय विननाद महास्वनम् || ३१||

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः |
व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु || ३२||

32

2561

Understanding the thought process of Shri Rama (killing Indrajit by other means), Indrajit goes back to Lanka.  After recalling the deaths of various demon warriors like Kumbhakarna, the infuriated Indrajit returned to battlefield by placing an illusory live Seetha in his chariot. 

Shri Hanuman with his army of vanaras watch the illusory Sita, who was wearing only a single braid of hair, looking miserable and she was crying “Rama”, “Rama”. While Shri Hanuman and his army are watching in horror, Indrajit pulls Seetha by her hair and with an unsheathed sword, Indrajit chops off the illusory Seetha into two parts and roars with laughter.

82

श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् |

वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः || १||

तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः |
विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् || २||

कस्माद्विषण्णवदना विद्रवध्वं प्लवङ्गमाः |
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् || ३||

पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे |
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् || ४||

एवमुक्ताः सुसङ्क्रुद्धा वायुपुत्रेण धीमता |

शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः || ५||

अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः |

परिवार्य हनूमन्तमन्वयुश्च महाहवे || ६||

सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः |

हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् || ७ ||

स निवार्य परानीकमब्रवीत्तान्वनौकसः |

हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् ||८ ||

त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः |

यन्निमित्तं हि युध्यामो हता सा जनकात्मजा || ९||

इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च |

तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् || १०||

इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् |

शनैः शनैरसन्त्रस्तः सबलः स न्यवर्तत || ११||

स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः |

निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित् || १२||

यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा |

हूयमानः प्रजज्वाल होमशोणितभुक्तदा || १३||

सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः |

सन्ध्यागत इवादित्यः स तीव्राग्निः समुत्थितः || १४||

अथेन्द्रजिद्राक्षसभूतये तु

जुहाव हव्यं विधिना विधानवत् |

दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते

महासमूहेषु नयानयज्ञाः || १५||

15

2576

Led by Shri Hanuman, the vanaras fight with the demons in battle with trees and rocks. On seeing the devastation caused to his army, Indrajit discharges a number of arrows and kills some vanaras. Shri Hanuman eliminates some terrible demons with trees and rocks. Later, Shri Hanuman along with his army returns to Shri Rama. 

Upon sighting the return of Vanara army, Indrajit quickly moves to the sanctuary of Nikumbhila.

83

राघवश्चापि विपुलं तं राक्षसवनौकसाम् |
श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह || १||

सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् |
श्रूयते हि यथा भीमः सुमहानायुधस्वनः || २||

तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः |
क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः || ३||

ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः |
आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः || ४||

अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि |
वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् || ५||

दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् |
नीलमेघनिभं भीमं संनिवार्य न्यवर्तत || ६||

स तेन हरिसैन्येन संनिकर्षं महायशाः |
शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् || ७||

समरे युध्यमानानामस्माकं प्रेक्षतां च सः |
जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः || ८||

उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम |
तदहं भवतो वृत्तं विज्ञापयितुमागतः || ९||

तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः |
निपपात तदा भूमौ छिन्नमूल इव द्रुमः || १०||

तं भूमौ देवसङ्काशं पतितं दृश्य राघवम् |
अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः || ११||

असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः |
प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् || १२||

तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः |
उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् || १३||

शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् |
अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः || १४||

भूतानां स्थावराणां च जङ्गमानां च दर्शनम् |
यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः || १५||

यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् |
नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते || १६||

यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् |
भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् || १७||

तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि |
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः || १८||

त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते |
रक्षसापहृता भार्या प्राणैः प्रियतरा तव || १९||

तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् |
कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव || २०||

अयमनघ तवोदितः प्रियार्थं
जनकसुता निधनं निरीक्ष्य रुष्टः |
सहयगजरथां सराक्षसेन्द्रां
भृशमिषुभिर्विनिपातयामि लङ्काम् || २१||

21

2597

Shri Hanuman with his army approaches Shri Rama and reports him that Indrajit had killed Seetha. Upon hearing that news Shri Rama faints away. The monkeys sprinkle water on Rama, so that he regains consciousness. Then, Lakshmana embraces Shri Rama and consoles him.

84

राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले |
निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः || १||

नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः |
नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः || २||

सोऽभिगम्य महात्मानं राघवं शोकलालसं |
वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् || ३||

राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् |
ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् || ४||

व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः |
अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् || ५||

विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् |
उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः || ६||

हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः |
हनूमद्वचनात्सौम्य ततो मोहमुपागतः || ७||

कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः |
पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् || ८||

मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता |
तदयुक्तमहं मन्ये सागरस्येव शोषणम् || ९||

अभिप्रायं तु जानामि रावणस्य दुरात्मनः |
सीतां प्रति महाबाहो न च घातं करिष्यति || १०||

याच्यमानः सुबहुशो मया हितचिकीर्षुणा |
वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः || ११||

नैव साम्ना न भेदेन न दानेन कुतो युधा |
सा द्रष्टुमपि शक्येत नैव चान्येन केन चित् || १२||

वानरान्मोहयित्वा तु प्रतियातः स राक्षसः |
चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति || १३||

हुतवानुपयातो हि देवैरपि सवासवैः |
दुराधर्षो भवत्येष सङ्ग्रामे रावणात्मजः || १४||

तेन मोहयता नूनमेषा माया प्रयोजिता |
विघ्नमन्विच्छता तात वानराणां पराक्रमे |
ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते || १५||

त्यजेमं नरशार्दूलमिथ्या सन्तापमागतम् |
सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् || १६||

16

2613

Vibhishana comes and beholds the pitiable state of Shri Rama, who is lying in the lap of Lakshmana. Lakshmana informs Vibhishana that Seetha was killed by Indrajit. Explaining the secret of Indrajit to Shri Rama, Vibhishana says that Indrajit might have killed an illusory image of Seetha, as Ravana would not at any cost allow to do harm to Seeta. Vibhishana urges Shri Rama to send Lakshmana with an army to the sanctuary of Nikumbhila, so that Indrajit can be killed.

85

साध्वयं यातु सौमित्रिर्बलेन महता वृतः |
निकुम्भिलायां सम्प्राप्य हन्तुं रावणिमाहवे || १||

धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः |
शरैर्हन्तुं महेष्वासो रावणिं समितिञ्जयः || २||

तेन वीरेण तपसा वरदानात्स्वयम्भुतः |
अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः || ३||

निकुम्भिलामसम्प्राप्तमहुताग्निं च यो रिपुः |
त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः |
इत्येवं विहितो राजन्वधस्तस्यैव धीमतः || ४||

वधायेन्द्रजितो राम तं दिशस्व महाबलम् |
हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् || ५||

विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत् |
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम || ६||

स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः |
करोत्यसंज्ञान्सङ्ग्रामे देवान्सवरुणानपि || ७||

तस्यान्तरिक्षे चरतो रथस्थस्य महायशः |
न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसम्प्लवे || ८||

राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः |
लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् || ९||

यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः |
हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण || १०||

जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः |
जहि तं राक्षससुतं मायाबलविशारदम् || ११||

अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः |
अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति || १२||

राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः |
जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः || १३||

संनद्धः कवची खड्गी स शरी हेमचापधृक् |
रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् || १४||

अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम् |
लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीम् इव || १५||

अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः |
विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः || १६||

स एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः |
स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ || १७||

सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् |
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् || १८||

विभीषणेन सहितो राजपुत्रः प्रतापवान् |
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ || १९||

वानराणां सहस्रैस्तु हनूमान्बहुभिर्वृतः |
विभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात् || २०||

महता हरिसैन्येन सवेगमभिसंवृतः |
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् || २१||

स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः |
राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् || २२||

स सम्प्राप्य धनुष्पाणिर्मायायोगमरिन्दम |
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः || २३||

विविधममलशस्त्रभास्वरं तद्
ध्वजगहनं विपुलं महारथैश् च |
प्रतिभयतममप्रमेयवेगं
तिमिरमिव द्विषतां बलं विवेश || २४||

24

2637

Consoled by Vibhishana, Shri Rama asks Vibhishana to explain the issue again.

Vibhishana explains that Indrajit did a great penance to Brahma and obtained a boon that if he completes a Vama ritual at Nikumbhila, he would become invincible and Shri Rama, Lakshmana and the whole army of Vanaras would perish at the hands of Indrajit. 

However, Brahma added a rider here.

If Indrajit, after commencing the Vama ritual at Nikumbhila, was forced to abandon it half-way through due to interference of an enemy, Indrajit would be killed by that enemy.

Revealing this secret of Indrajit to Shri Rama, Vibhishana says that by killing an illusory Sita Indrajit diverted the attention of Shri Rama and the Vanara army. He added that Indrajit might have proceeded to Nikumbhila to perform that Vama ritual.  He suggested to Shri Rama to send Lakshmana to kill Indrajit, even before Indrajit completes the ritual at Nikumbhila. 

Shri Rama then asks Lakshmana to proceed with the battle along with armies of Sugreeva.  Shri Hanuman, Jambavan, Vibhishana and Lakshmana and vanara army proceeded to Nikumbhila .

इत्यार्षे श्री रामायणे युद्धकाण्डे पञ्चविंशतिः भाग:

 

Yuddhakāṇḍa Part-24

Yuddhakāṇḍa Part-26

 

No comments:

Post a Comment