युद्धकाण्ड - Yuddhakāṇḍa (भाग - २६
;;; Part – 26)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
102 |
शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा | राममाश्वासयन्वीरः सुषेणो वाक्यमब्रवीत् | || १|| न
चास्य विकृतं वक्त्रं नापि श्यामं न निष्प्रभम् || २|| पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने || ३|| आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले | एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः | सौम्य
शीघ्रमितो गत्वा शैलमोषधिपर्वतम् | दक्षिणे शिखरे तस्य जातामोषधिमानय | सौवर्णकरणीं चापि तथा सञ्जीवनीम् अपि | इत्येवमुक्तो हनुमान्गत्वा चौषधिपर्वतम् | तस्य
बुद्धिः समुत्पन्ना मारुतेरमितौजसः | अगृह्य यदि गच्छामि विशल्यकरणीम् अहम् | इति
सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः | ओषधीर्नावगछामि ता अहं हरिपुङ्गव | एवं
कथयमानं तं प्रशस्य पवनात्मजम् | ततः
सङ्क्षोदयित्वा तामोषधिं वानरोत्तमः | सशल्यः स समाघ्राय लक्ष्मणः परवीरहा | समुत्थितं ते हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् | एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा | |
19 |
2276 |
|
Scrutinising the
condition of Lakshmana, Sushena, the vanara-physician says he is still alive.
Sushena then suggests Shri Hanuma to fly quickly to Himalayas and bring the
required herbs to treat Lakshmana. Shri Hanuman leaps to Mount Mahodara and
brings the whole mountain-peak. Sushena treats Lakshmana with those herbs and
he regains consciousness. |
|||
|
103 |
अथान्यं रथमास्थाय रावणो राक्षसाधिपः | अभ्यधावा काकुत्स्थं स्वर्भानुरिव भास्करम् ||१|| दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः | तद्बभूवाद्भुतं युद्धं द्वैरथं लोमहर्षणम् | स
गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः | अस्त्रं तु परमं घोरं राक्षसं राकसाधिप | ते
रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः | ते
दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः | तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः | तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे | ते
राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः | ते
तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् | अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः | |
12 |
2288 |
|
Ravana ascends
another chariot and returns to battlefield. A fierce and thrilling battle
ensues between Shri Rama and Ravana, in which Ravana gets severely hurt. |
|||
|
109
110 |
ततो
राक्षससैन्यं च हरीणां च महद्बलम् | सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ | नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः | रक्षसां रावणं चापि वानराणां च राघवम् | तौ
तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ | जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः | रावणध्वजमुद्दिश्य मुमोच निशितं शरम् | जगाम
स महीं भित्त्वा दशग्रीवध्वजं शरः | ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः | गदाश्च परिघांश्चैव चक्राणि मुसलानि च | माया
विहितमेतत्तु शस्त्रवर्षमपातयत् | तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् | व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे | स
मुमोच ततो बाणान्रणे शतसहस्रशः | ततस्ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता | नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः | प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् | ततः
क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः | सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् | रावणस्य शिरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् || १८|| तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा | तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः || १९|| तत्क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा | द्वितीयं रावणशिरश्छिन्नं संयति सायकैः || २०|| छिन्नमात्रं च तच्छीर्षं पुनरन्यत्स्म दृश्यते | तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः || २१|| एवमेव
शतं छिन्नं शिरसां तुल्यवर्चसाम् | न
चैव रावणस्यान्तो दृश्यते जीवितक्षये || २२|| ततः
सर्वास्त्रविद्वीरः कौसल्यानन्दिवर्धनः | मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः || २३|| मारीचो निहतो यैस्तु खरो यैस्तु सुदूषणः | क्रञ्चारण्ये विराधस्तु कबन्धो दण्डका वने || २४|| त
इमे सायकाः सर्वे युद्धे प्रत्ययिका मम | किं
नु तत्कारणं येन रावणे मन्दतेजसः || २५|| इति
चिन्तापरश्चासीदप्रमत्तश्च संयुगे | ववर्ष
शरवर्षाणि राघवो रावणोरसि || २६|| रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः | गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे || २७|| |
27 |
2315 |
|
Releasing continuous
arrows at each other, Shri Rama and Ravana were engaged in a fierce battle.
Ravana's flag-staff is brought down by Shri Rama's arrows. When Shri Rama
chopped off Ravana’s head, another head cropped up in that place. Shri Rama
got frustrated with the endless cutting off Ravana's head, and cropping up of
another head in its place. |
|||
|
111 |
तस्मिन् काले संस्मारितो रामोऽस्त्रं पैतामहम्। जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम्॥१ अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः | वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली || २ || स
रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् | चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् || ३|| स
वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः | कृतान्त इव चावार्यो न्यपतद्रावणोरसि || ४|| स
विसृष्टो महावेगः शरीरान्तकरः शरः | बिभेद
हृदयं तस्य रावणस्य दुरात्मनः || ५|| रुधिराक्तः स वेगेन जीवितान्तकरः शरः | रावणस्य हरन्प्राणान्विवेश धरणीतलम् || ६|| स
शरो रावणं हत्वा रुधिरार्द्रकृतच्छविः | कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत् || ७|| तस्य
हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् | निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् || ८|| गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः | पपात
स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा || ९|| तं
दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः | हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः || १०|| नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः | दशग्रीववधं दृष्ट्वा विजयं राघवस्य च || ११|| अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात् | हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः || १२|| ततो
विनेदुः संहृष्टा वानरा जितकाशिनः | वदन्तो राघवजयं रावणस्य च तं वधम् || १३|| ततः
सकामं सुग्रीवमङ्गदं च महाबलम् | चकार
राघवः प्रीतो हत्वा राक्षसपुङ्गवम् || १४|| ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा | समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिनाभ्यपूजयन् || १५|| स
तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज | रघुकुलनृपनन्दनो महौजास् त्रिदशगणैरभिसंवृतो यथेन्द्रः || १६|| |
16 |
2331 |
|
Shri Rama remembers
Brahmastra, a DIVINE astra presided over by Brahma, at that critical time and decides to utilise
Brahmastra, on Ravana. Shri Rama discharges the BRAHMASTRA on Ravana, which
penetrates Ravana's heart and kills him. Ravana falls down dead from his
chariot to the earth. |
|||
इत्यार्षे
श्री
रामायणे
युद्धकाण्डे षड्विंशतिः भाग:
No comments:
Post a Comment