Thursday, January 8, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २७ ;;; Part – 27)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २७ ;;; Part – 27)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

90

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ |
शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनि || १||

ततो विस्फारयामास महद्धनुरवस्थितः |
उत्ससर्ज च तीक्ष्णाग्रान्राक्षसेषु महाशरान् || २||

ते शराः शिखिसङ्काशा निपतन्तः समाहिताः |
राक्षसान्दारयामासुर्वज्रा इव महागिरीन् || ३||

विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः |
चिच्छेदुः समरे वीरान्राक्षसान्राक्षसोत्तमाः || ४||

राक्षसैस्तैः परिवृतः स तदा तु विभीषणः |
बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः || ५||

ततः सञ्चोदयानो वै हरीन्रक्षोरणप्रियान् |
उवाच वचनं काले कालज्ञो रक्षसां वरः || ६||

एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः |
एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः || ७||

अस्मिन्विनिहते पापे राक्षसे रणमूर्धनि |
रावणं वर्जयित्वा तु शेषमस्य बलं हतम् || ८||

प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः |
कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः || ९||

अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः |
कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ || १०||

एतान्निहत्यातिबलान्बहून्राक्षससत्तमान् |
बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु || ११||

एतावदिह शेषं वो जेतव्यमिह वानराः |
हताः सर्वे समागम्य राक्षसा बलदर्पिताः || १२||

अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम |
घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् || १३||

हन्तुकामस्य मे बाष्पं चक्षुश् चैव निरुध्यते |
तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति |
वानरा घ्नन्तुं सम्भूय भृत्यानस्य समीपगान् || १४||

इति तेनातियशसा राक्षसेनाभिचोदिताः |
वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः || १५||

ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः |
मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः || १६||

जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः |
अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् || १७||

निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः |
परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः || १८||

शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः |
जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् || १९||

स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम् |
देवासुराणां क्रुद्धानां यथा भीमो महास्वनः || २०||

हनूमानपि सङ्क्रुद्धः सालमुत्पाट्य पर्वतात् |
रक्षसां कदनं चक्रे समासाद्य सहस्रशः || २१||

स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि |
लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत || २२||

तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ |
शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् || २३||

अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ |
चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ || २४||

न ह्यादानं न सन्धानं धनुषो वा परिग्रहः |
न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः || २५||

न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् |
अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् || २६||

चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः |
अन्तरिक्षेऽभिसञ्चन्ने न रूपाणि चकाशिरे |
तमसा पिहितं सर्वमासीद्भीमतरं महत् || २७||

न तदानीइ.म् ववौ वायुर्न जज्वाल च पावक् |
स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः |
सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः || २८||

अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् |
शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् || २९||

ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः |
लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् || ३०||

निहतं सारथिं दृष्ट्वा समरे रावणात्मजः |
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह || ३१||

विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः |
ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् || ३२||

ततः प्रमाथी शरभो रभसो गन्धमादनः |
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः || ३३||

ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः |
चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः || ३४||

तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः |
मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत || ३५||

ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् |
पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः || ३६||

स हताश्वादवप्लुत्य रथान्मथितसारथेः |
शरवर्षेण सौमित्रिमभ्यधावत रावणिः || ३७||

ततो महेन्द्रप्रतिमंह्स लक्ष्मणः
पदातिनं तं निशितैः शरोत्तमैः |
सृजन्तमादौ निशिताञ्शरोत्तमान्
भृशं तदा बाणगणैर्न्यवारयत् || ३८||

38

2769

Vibhishana gives motivating lecture to the chiefs of vanaras stating that

·       Indrajit was the only one warrior left out in Ravana’s army

·      Indrajit is equal to his son and he should not kill him, but he is assisting in eliminating him

·       He is in tears in killing Indrajit and thus he entrusted that work to Lakshmana

·       Carry on the combat and kill all demons fighting in support of Indrajit

Then, the motivated vanaras furiously attacked the demons. Even Shri Hanuman begins to eliminate thousands of demons. Indrajit rushes towards Lakshmana and starts fighting with him. Lakshmana kills Indrajit's charioteer. Four excellent vanara-chiefs kill Indrajit's horses and destroys his chariot.

91

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः |
इन्द्रजित्परमक्रुद्धः सम्प्रजज्वाल तेजसा || १||

तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् |
विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव || २||

निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः |
भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः || ३||

स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः |
ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः || ४||

मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः |
अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् || ५||

अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः |
ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् |
अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन् || ६||

तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः |
रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः || ७||

स तथाप्यर्दितो बाणै राक्षसेन महामृधे |
तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः || ८||

लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ |
अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ || ९||

तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ |
घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये || १०||

तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः |
वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान् || ११||

ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः |
बभूवुर्लोहितादिग्धा रक्टा इव महोरगाः || १२||

स पितृव्यस्य सङ्क्रुद्ध इन्द्रजिच्छरमाददे |
उत्तमं रक्षसां मध्ये यमदत्तं महाबलः || १३||

तं समीक्ष्य महातेजा महेषुं तेन संहितम् |
लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः || १४||

कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना |
दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः || १५||

ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ |
विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया || १६||

तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ |
मुखेन मुखमाहत्य संनिपेततुरोजसा || १७||

तौ महाग्रहसङ्काशावन्योन्यं संनिपत्य च |
सङ्ग्रामे शतधा यातौ मेदिन्यां विनिपेततुः || १८||

शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि |
व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ || १९||

सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे |
रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः || २०||

तयोः सुतुमुलं युद्धं सम्बभूवाद्भुतोपमम् |
गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् || २१||

भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् |
भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ || २२||

ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः |
शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे || २३||

अथान्यं मार्गणश्रेष्ठं सन्दधे रावणानुजः |
हुताशनसमस्पर्शं रावणात्मजदारुणम् || २४||

सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् |
सुवर्णविकृतं वीरः शरीरान्तकरं शरम् || २५||

दुरावारं दुर्विषहं राक्षसानां भयावहम् |
आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् || २६||

येन शक्रो महातेजा दानवानजयत्प्रभुः |
पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः || २७||

तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् |
शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसन्दधे || २८||

सन्धायामित्रदलनं विचकर्ष शरासनम् |
सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा || २९||

सन्धाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत् |
लक्ष्मीवाँल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः || ३०||

धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि |
पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम् || ३१||

इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् |
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति |
ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा || ३२||

तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् |
प्रमथ्येन्द्रजितः कायात्पपात धरणीतले || ३३||

तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् |
तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् || ३४||

हतस्तु निपपाताशु धरण्यां रावणात्मजः |
कवची सशिरस्त्राणो विध्वस्तः सशरासनः || ३५||

चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः |
हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा || ३६||

अथान्तरिक्षे भूतानामृषीणां च महात्मनाम् |
अभिजज्ञे च संनादो गन्धर्वाप्सरसाम् अपि || ३७||

पतितं समभिज्ञाय राक्षसी सा महाचमूः |
वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः || ३८||

वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः |
लङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः || ३९||

दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः |
त्यक्त्वा प्रहरणान्सर्वे पट्टसासिपरश्वधान् || ४०||

के चिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः |
समुद्रे पतिताः के चित्के चित्पर्वतमाश्रिताः || ४१||

हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ |
राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत || ४२||

यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः |
तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः || ४३||

शान्तरक्ष्मिरिवादित्यो निर्वाण इव पावकः |
स बभूव महातेजा व्यपास्त गतजीवितः || ४४||

प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान् |
बभूव लोकः पतिते राक्षसेन्द्रसुते तदा || ४५||

हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः |
जगाम निहते तस्मिन्राक्षसे पापकर्मणि || ४६||

शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः |
आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे || ४७||

ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः |
विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति || ४८||

ततोऽभ्यनन्दन्संहृष्टाः समरे हरियूथपाः |
तमप्रतिबलं दृष्ट्वा हतं नैरृतपुङ्गवम् || ४९||

विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः |
विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् || ५०||

क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः |
लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे || ५१||

लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः |
लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा || ५२||

अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः |
चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः || ५३||

तदसुकरमथाभिवीक्ष्य हृष्टाः
प्रियसुहृदो युधि लक्ष्मणस्य कर्म |
परममुपलभन्मनःप्रहर्षं
विनिहतमिन्द्ररिपुं निशम्य देवाः || ५४||

54

2823

When his chariot was destroyed and his horses were killed, Indrajit started fighting with Lakshmana by standing on the ground. With the darkness engulfing in that area, Indrajit told the demons to continue their fight, and he would go back and come with another chariot. 

Indrajit goes back to Lanka and comes back to the battlefield quickly in another chariot. Everyone is surprised with his swift move. He resumed his attacks on the vanaras. 

Then, Indrajit and Lakshmana continue a fierce battle. Lakshmana destroys Indrajit's armour, killed his charioteer. Then, Indrajit attacked Vibhishana, who got furious and killed the horses of Indrajit’s chariot. 

Indrajit and Lakshman attacked each other with many DIVINE weapons, and the war remained a check-mate with both continuing the war.  

Finally, employing Aindrastra, a missile presided over by Indra, Lakshmana supplemented it with the ascetic power of Shri Rama and discharged it towards Indrajit. 

धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि |

पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम् || 

"O my dear arrow! If Rama the son of Dasaratha has set his mind on virtue, keeps up his promise and is second to none in his prowess, destroy this Indrajit."

That DIVINE missile chopped off Indrajit's head, which falls to the ground. Witnessing Indrajit's death, all the vanara generals, Vibhishana, Shri Hanuman and Jambavan applauded Lakshmana.

इत्यार्षे श्री रामायणे युद्धकाण्डे सप्तविंशतिः भाग:

Yuddhakāṇḍa Part-26

Yuddhakāṇḍa Part-28

 

No comments:

Post a Comment