युद्धकाण्ड - Yuddhakāṇḍa (भाग - २८ ;;; Part – 28)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
124 |
तां
रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् | स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च | अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः | एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् | स
तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः | तं
विना कैकेयीपुत्रं भरतं धर्मचारिणम् | इत
एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् | एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः | पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् | तदिदं
मेघसङ्काशं विमानमिह तिष्ठति | अहं
ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् | लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया | प्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः | प्रणयाद्बहुमानाच्च सौहृदेन च राघव | एवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् | पूजितोऽहं त्वया वीर साचिव्येन परन्तप | न
खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर | मां
निवर्तयितुं योऽसौ चित्रकूटमुपागतः | कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् | उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर | अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण | ततः
काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् | पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् | प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् | तन्मेरुशिखराकारं निर्मितं विश्वकर्मणा | तलैः
स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः | उपस्थितमनाधृष्यं तद्विमानं मनोजवम् | |
27 |
2468 |
|
Though Vibhishana
requests Shri Rama to stay back at Lanka for some more time and receive his
hospitality, Shri Rama politely refuses to do so, stating that he needs to
proceed to Ayodhya quickly, to see his mothers, brothers and people there.
Vibhishana arranges Pushpaka, the aerial car, to transport Shri Rama and
others to Ayodhya. |
|||
|
125 |
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् | स
तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः | तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः | कृतप्रयत्नकर्माणो विभीषण वनौकसः | सहैभिरर्दिता लङ्का निर्जिता राक्षसेश्वर | एवं
संमानिताश्चेमे मानार्हा मानद त्वया | त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् | एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः | ततस्तान्पूजितान्दृष्ट्वा रत्नैरर्थैश्च यूथपान् | अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् | अब्रवीच्च विमानस्थः काकुत्स्थः सर्ववानरान् | मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः | यत्तु
कार्यं वयस्येन सुहृदा वा परन्तप | स्वराज्ये वस लङ्कायां मया दत्ते विभीषण | अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम | एवमुक्तास्तु रामेण वानरास्ते महाबलाः | दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च | एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः | प्रियात्प्रियतरं लब्धं यदहं ससुहृज्जनः | क्षिप्रमारोह सुग्रीव विमानं वानरैः सह | ततस्तत्पुष्पकं दिव्यं सुग्रीवः सह सेनया | तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् | ययौ
तेन विमानेन हंसयुक्तेन भास्वता | |
23 |
2491 |
|
Shri Rama requests Vibhishana to honour the vanaras, who fought for his cause valiantly, with gold and precious stones. Accordingly, Vibhishana honoured them with the gifts. Then, Shri Rama along with Lakshmana and Seetha ascended the aerial car. When Shri Rama
expresses his gratitude to Sugreeva, Vibhishana and others and is about to
move, Sugreeva and Vibhishana request Shri Rama to permit them to accompany
in the Pushpaka to Ayodhya to witness his coronation-ceremony. Shri Rama
gladly accepts and all ascend the Pushpaka and start on their aerial journey
towards Ayodhya. |
|||
|
126 |
अनुज्ञातं तु रामेण तद्विमानमनुत्तमम् | पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः | कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् | एतदायोधनं पश्य मांसशोणितकर्दमम् | तवहेतोर्विशालाक्षि रावणो निहतो मया | लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे | अकम्पनश्च निहतो बलिनोऽन्ये च राक्षसाः | अत्र
मन्दोदरी नाम भार्या तं पर्यदेवयत् | एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने | एष
सेतुर्मया बद्धः सागरे सलिलार्णवे | पश्य
सागरमक्षोभ्यं वैदेहि वरुणालयम् | हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि | अत्र
राक्षसराजोऽयमाजगाम विभीषणः || १३|| एषा
सा दृश्यते सीते किष्किन्धा चित्रकानना | दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः | अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः | एषा
सा दृश्यते पम्पा नलिनी चित्रकानना | अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी | दृश्यतेऽसौ जनस्थाने सीते श्रीमान्वनस्पतिः | खरश्च
निहतश्सङ्ख्ये दूषणश्च निपातितः | पर्णशाला तथा चित्रा दृश्यते शुभदर्शना | एषा
गोदावरी रम्या प्रसन्नसलिला शिवा | वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् | एते
ते तापसावासा दृश्यन्ते तनुमध्यमे | अस्मिन्देशे महाकायो विराधो निहतो मया || २५|| असौ
सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते | एषा
सा यमुना दूराद्दृश्यते चित्रकानना | |
27 |
2518 |
|
During their journey to Ayodhya, Shri Rama shows to Seetha, the whole City of Lanka, the battle-field where Ravana and other demons were killed, the bridge constructed by vanaras under Nala across the ocean, Mount Mainka, Mount Rishyamuka. When Pushpaka reached Kishkinda area, Sita requests Shri Rama to ask the wives of Sugreeva and important women to accompany them, which was agreed to. When the women in Kishkinda ascended the Pushpaka, their journey resumes. Then, Shri Rama
showed to Sita the Pampa Lake, Janasthana forest, Panchavati, Godavari River,
the hermitage of sage Agastya, the hermitage of sage Atri and Anasuya,
Chitrakuta, the hermitage of Bharadwaja. |
|||
|
127 |
पूर्णे चतुर्दशे वर्षे पञ्चभ्यां लक्ष्मणाग्रजः | सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् | एवमुक्तस्तु रामेण भरद्वाजो महामुनिः | पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते | त्वां
पुरा चीरवसनं प्रविशन्तं महावनम् | पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् | दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिञ्जय | साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् | सर्वं
च सुखदुःखं ते विदितं मम राघव | ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् | कबन्धदर्शनं चैव पम्पाभिगमनं तथा | मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च | सपुत्रबान्धवामात्यः सबलः सह वाहनः | समागमश्च त्रिदशैर्यथादत्तश्च ते वरः | अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर | तस्य
तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः | अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः | निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनः | |
18 |
2536 |
|
After the fourteenth year of exile, on the fifth day of the bright half of lunar month, Shri Rama and Lakshmana reached Sage Bharadwaja's hermitage. They bent their heads down (as a mark of respect) and offered salutations. Sage Bharadwaja blessed them. Then, Shri Rama seeks
a boon from Sage Bharadwaja, requesting him to make the trees enroute to
Ayodhya, to bear fruit in the off-season, and the sage grants the boon.
Thereupon, the vanaras feasted on those fruits at will. |
|||
इत्यार्षे श्री रामायणे युद्धकाण्डे अष्टाविंशतिः भाग:
No comments:
Post a Comment