Friday, January 9, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २८ ;;; Part – 28)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - २८ ;;; Part – 28)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

92

रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः |
बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे || १||

ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् |
संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः || २||

आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ |
विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः || ३||

ततो राममभिक्रम्य सौमित्रिरभिवाद्य च |
तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा |
आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् || ४||

रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना |
न्यवेदयत रामाय तदा हृष्टो विभीषणः || ५||

उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् |
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् |
उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः || ६||

कृतं परमकल्याणं कर्म दुष्करकारिणा |
निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः |
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् || ७||

तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम् |
बलेनावृत्य महता निहनिष्यामि दुर्जयम् || ८||

त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे |
न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे || ९||

स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः |
रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् || १०||

सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः |
यथा भवति सुस्वस्थस्तथा त्वं समुपाचर |
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः || ११||

कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम् |
ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा |
तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया || १२||

एवमुक्तः स रामेण महात्मा हरियूथपः |
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् || १३||

स तस्य गन्धमाघ्राय विशल्यः समपद्यत |
तदा निर्वेदनश्चैव संरूढव्रण एव च || १४||

विभीषण मुखानां च सुहृदां राघवाज्ञया |
सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् || १५||

ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः |
सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः || १६||

तथैव रामः प्लवगाधिपस्तदा
विभीषणश्चर्क्षपतिश्च जाम्बवान् |
अवेक्ष्य सौमित्रिमरोगमुत्थितं
मुदा ससैन्यः सुचिरं जहर्षिरे || १७||

अपूजयत्कर्म स लक्ष्मणस्य
सुदुष्करं दाशरथिर्महात्मा |
हृष्टा बभूवुर्युधि यूथपेन्द्रा
निशम्य तं शक्रजितं निपातितम् || १८||

18

2841

Lakshmana, Shri Hanuman, Vibhishana and other vanara leaders approach Shri Rama and inform him about Indrajit's death. Shri Rama was delighted with the news and applauds Lakshmana, by embracing him. Sushena provides medical treatment to  wounded Lakshmana and others.

93

ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् |
आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः || १||

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः |
विभीषणसहायेन मिषतां नो महाद्युते || २||

शूरः शूरेण सङ्गम्य संयुगेष्वपराजितः |
लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् || ३||

स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् |
घोरमिन्द्रजितः सङ्ख्ये कश्मलं प्राविशन्महत् || ४||

उपलभ्य चिरात्संज्ञां राजा राक्षसपुङ्गवः |
पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः || ५||

हा राक्षसचमूमुख्य मम वत्स महारथ |
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः || ६||

ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि |
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे || ७||

अद्य वैवस्वतो राजा भूयो बहुमतो मम |
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा || ८||

एष पन्थाः सुयोधानां सर्वामरगणेष्वपि |
यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति || ९||

अद्य देवगणाः सर्वे लोकपालास्तथर्षयः |
हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः || १०||

अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना |
एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे || ११||

अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम् |
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे || १२||

यौवराज्यं च लङ्कां च रक्षांसि च परन्तप |
मातरं मां च भार्यां च क्व गतोऽसि विहाय नः || १३||

मम नाम त्वया वीर गतस्य यमसादनम् |
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे || १४||

स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे |
मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः || १५||

एवमादिविलापार्तं रावणं राक्षसाधिपम् |
आविवेश महान्कोपः पुत्रव्यसनसम्भवः || १६||

स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः |
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत || १७||

प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् |
दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान् || १८||

मायया मम वत्सेन वञ्चनार्थं वनौकसाम् |
किं चिदेव हतं तत्र सीतेयमिति दर्शितम् || १९||

तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः |
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् |
इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् || २०||

उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसं |
निष्पपात स वेगेन सभायाः सचिवैर्वृतः || २१||

रावणः पुत्रशोकेन भृशमाकुलचेतनः |
सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली || २२||

व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः |
ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः || २३||

अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः |
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः |
बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः || २४||

तेषां सञ्जल्पमानानामशोकवनिकां गताम् |
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः || २५||

वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः |
अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीम् इव || २६||

सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् |
निवार्यमाणं सचिवैरिदं वचनमब्रवीत् || २७||

कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज |
हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि || २८||

वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा |
स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर || २९||

मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव |
त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज || ३०||

अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् |
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः || ३१||

शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः |
हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् || ३२||

स तद्दुरात्मा सुहृदा निवेदितं
वचः सुधर्म्यं प्रतिगृह्य रावणः |
गृहं जगामाथ ततश्च वीर्यवान्
पुनः सभां च प्रययौ सुहृद्वृतः || ३३||

33

2874

Ravana swooned in hearing the news of his son's death. On regaining consciousness, he feels distressed. Thereafter, he gets enraged and after deeply pondering over, decides to kill Seetha, whose illusory figure that his son Indrajit killed. Ravana with a sword in his hand, rushes towards Ashoka Garden to kill Seetha.

Suparshva, a good and upright minister of Ravana advises Ravana to desist from that cowardly act and to focus his anger towards Shri Rama in the war. Ravana restrains himself upon hearing the advice of his minister and returns to his assembly-hall.

96

उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः |
भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा || १||

महोदरं महापार्श्वं विरूपाक्षं च राक्षसं |
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया || २||

तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः |
चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया || ३||

ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः |
कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः || ४||

प्रतिपूज्य यथान्यायं रावणं ते महारथाः |
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः || ५||

अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया |
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् || ६||

आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा |
रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् || ७||

रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ |
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा || ८||

ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम् |
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः || ९||

ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः |
निर्ययावुद्यतधनुः कालान्तकयमोमपः || १०||

ततः प्रजवनाश्वेन रथेन स महारथः |
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ || ११||

ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः |
द्विजाश्च नेदुर्घोराश्च सञ्चचाल च मेदिनी || १२||

ववर्ष रुधिरं देवश्चस्खलुश्च तुरङ्गमाः |
ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः || १३||

नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत |
विवर्णवदनश्चासीत्किं चिदभ्रश्यत स्वरः || १४||

ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः |
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे || १५||

अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वना |
विनेदुरशिवं गृध्रा वायसैरनुनादिताः || १६||

एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान् |
निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः || १७||

तेषां तु रथघोषेण राक्षसानां महात्मनाम् |
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत || १८||

तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम् |
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् || १९||

ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः |
वानराणामनीकेषु चकार कदनं महत् || २०||

निकृत्तशिरसः के चिद्रावणेन वलीमुखाः |
निरुच्छ्वासा हताः के चित्के चित्पार्श्वेषु दारिताः |
के चिद्विभिन्नशिरसः के चिच्चक्षुर्विवर्जिताः || २१||

दशाननः क्रोधविवृत्तनेत्रो
यतो यतोऽभ्येति रथेन सङ्ख्ये |
ततस्ततस्तस्य शरप्रवेगं
सोढुं न शेकुर्हरियूथपास्ते || २२||

22

2896

Ravana orders his generals to direct their armies to set out for the battle immediately. As Ravana is moves towards the battlefield, he experiences several evil portents, but pushes forward, disregarding those portents. A tumultuous fight ensues, between the vanaras and the demons. Ravana fights fiercely with vanaras.

97

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः |
बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता || १||

रावणस्याप्रसह्यं तं शरसम्पातमेकतः |
न शेकुः सहितुं दीप्तं पतङ्गा इव पावकम् || २||

तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः |
पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः || ३||

प्लवङ्गानामनीकानि महाभ्राणीव मारुतः |
स ययौ समरे तस्मिन्विधमन्रावणः शरैः || ४||

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् |
आससाद ततो युद्धे राघवं त्वरितस्तदा || ५||

सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे |
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः || ६||

आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम् |
सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः || ७||

पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् |
अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् || ८||

स नदन्युधि सुग्रीवः स्वरेण महता महान् |
पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान् || ९||

ममर्द च महाकायो राक्षसान्वानरेश्वरः |
युगान्तसमये वायुः प्रवृद्धानगमानिव || १०||

राक्षसानामनीकेषु शैलवर्षं ववर्ष ह |
अश्ववर्षं यथा मेघः पक्षिसङ्घेषु कानने || ११||

कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः |
विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः || १२||

अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः |
सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च || १३||

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः |
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् || १४||

स तं द्विरदमारुह्य विरूपाक्षो महारथः |
विनदन्भीमनिर्ह्रालं वानरानभ्यधावत || १५||

सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे |
स्थापयामासा चोद्विग्नान्राक्षसान्सम्प्रहर्षयन् || १६||

सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा |
चुक्रोध च महाक्रोधो वधे चास्य मनो दधे || १७||

ततः पादपमुद्धृत्य शूरः सम्प्रधने हरिः |
अभिपत्य जघानास्य प्रमुखे तं महागजम् || १८||

स तु प्रहाराभिहतः सुग्रीवेण महागजः |
अपासर्पद्धनुर्मात्रं निषसाद ननाद च || १९||

गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् |
राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् || २०||

आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः |
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् || २१||

स हि तस्याभिसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् |
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् || २२||

स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः |
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा || २३||

तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे |
कवचं पातयामास स खड्गाभिहतोऽपतत् || २४||

स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् |
तलप्रहारमशनेः समानं भीमनिस्वनम् || २५||

तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् |
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् || २६||

ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः |
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा || २७||

स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः |
ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम् || २८||

महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ |
पपात रुधिरक्लिन्नः शोणितं स समुद्वमन् || २९||

विवृत्तनयनं क्रोधात्सफेन रुधिराप्लुतम् |
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् || ३०||

स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् |
करुणं च विनर्दान्तं ददृशुः कपयो रिपुम् || ३१||

तथा तु तौ संयति सम्प्रयुक्तौ
तरस्विनौ वानरराक्षसानाम् |
बलार्णवौ सस्वनतुः सभीमं
महार्णवौ द्वाविव भिन्नवेलौ || ३२||

विनाशितं प्रेक्ष्य विरूपनेत्रं
महाबलं तं हरिपार्थिवेन |
बलं समस्तं कपिराक्षसानाम्
उन्मत्तगङ्गाप्रतिमं बभूव || ३३||

33

2929

In another front,  Sugreeva along with some vanaras attack some chiefs of demon army and eliminated them. Then, Virupaksha a demon warrior surges ahead and attacks Sugreeva. With a terrible stroke of Sugreeva on the temporal-bone of Virupaksha dies in the battlefield.

इत्यार्षे श्री रामायणे युद्धकाण्डे अष्टाविंशतिः भाग:

Yuddhakāṇḍa Part-27

Yuddhakāṇḍa Part-29

 

No comments:

Post a Comment