Monday, January 5, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ४ ;;; Part – 4)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 4)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

16

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम् |
अब्रवीत्परुषं वाक्यं रावणः कालचोदितः || १||

वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा |
न तु मित्रप्रवादेन संवसेच्छत्रुसेविना || २||

जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस |
हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा || ३||

प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस |
ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च || ४||

नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः |
प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः || ५||

श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्व चित् |
पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम || ६||

नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः |
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः || ७||

उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः |
कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः || ८||

विद्यते गोषु सम्पन्नं विद्यते ब्राह्मणे दमः |
विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् || ९||

ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः |
ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः || १०||

अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर |
अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् || ११||

इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः |
उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः || १२||

अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः |
अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् || १३||

स त्वं भ्रातासि मे राजन्ब्रूहि मां यद्यदिच्छसि |
इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव || १४||

सुनीतं हितकामेन वाक्यमुक्तं दशानन |
न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः || १५||

सुलभाः पुरुषा राजन्सततं प्रियवादिनः |
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः || १६||

बद्धं कालस्य पाशेन सर्वभूतापहारिणा |
न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा || १७||

दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः |
न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः || १८||

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे |
कालाभिपन्ना सीदन्ति यथा वालुकसेतवः || १९||

आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् |
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना || २०||

निवार्यमाणस्य मया हितैषिणा
न रोचते ते वचनं निशाचर |
परीतकाला हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम् || २१||

21

264

Ravana refuses to hear the words of Vibhishana and reprimands him with harsh words. He alleges that Vibhishana being a kinsman, is waiting for an opportunity to backstab him, as kinsmen always are rejoiced at the calamities of their kinsmen. Vibhishana gets angry and leaves Lanka along with his 4 ministers, after giving a final parting advice to Ravana.

17

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः |
आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः || १||

तं मेरुशिखराकारं दीप्तामिव शतह्रदाम् |
गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः || २||

तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः |
वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान् || ३||

चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह |
हनूमत्प्रमुखान्सर्वानिदं वचनमुत्तमम् || ४||

एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः |
राक्षसोऽभ्येति पश्यध्वमस्मान्हन्तुं न संशयः || ५||

सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः |
सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् || ६||

शीघ्रं व्यादिश नो राजन्वधायैषां दुरात्मनाम् |
निपतन्तु हताश्चैते धरण्यामल्पजीविताः || ७||

तेषां सम्भाषमाणानामन्योन्यं स विभीषणः |
उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत || ८||

उवाच च महाप्राज्ञः स्वरेण महता महान् |
सुग्रीवं तांश्च सम्प्रेक्ष्य खस्थ एव विभीषणः || ९||

रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः |
तस्याहमनुजो भ्राता विभीषण इति श्रुतः || १०||

तेन सीता जनस्थानाद्धृता हत्वा जटायुषम् |
रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता || ११||

तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम् |
साधु निर्यात्यतां सीता रामायेति पुनः पुनः || १२||

स च न प्रतिजग्राह रावणः कालचोदितः |
उच्यमानो हितं वाक्यं विपरीत इवौषधम् || १३||

सोऽहं परुषितस्तेन दासवच्चावमानितः |
त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः || १४||

सर्वलोकशरण्याय राघवाय महात्मने |
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् || १५||

एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः |
लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् || १६||

रावणस्यानुजो भ्राता विभीषण इति श्रुतः |
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः || १७||

रावणेन प्रणिहितं तमवेहि विभीषणम् |
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर || १८||

राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमुपस्थितः |
प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव || १९||

बध्यतामेष तीव्रेण दण्डेन सचिवैः सह |
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः || २०||

एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः |
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् || २१||

सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः |
समीपस्थानुवाचेदं हनूमत्प्रमुखान्हरीन् || २२||

यदुक्तं कपिराजेन रावणावरजं प्रति |
वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम् || २३||

सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता |
समर्थेनापि सन्देष्टुं शाश्वतीं भूतिमिच्छता || २४||

इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः |
सोपचारं तदा राममूचुर्हितचिकीर्षवः || २५||

अज्ञातं नास्ति ते किं चित्त्रिषु लोकेषु राघव |
आत्मानं पूजयन्राम पृच्छस्यस्मान्सुहृत्तया || २६||

त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः |
परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च || २७||

तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव |
हेतुतो मतिसम्पन्नाः समर्थाश्च पुनः पुनः || २८||

इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः |
विभीषणपरीक्षार्थमुवाच वचनं हरिः || २९||

शत्रोः सकाशात्सम्प्राप्तः सर्वथा शङ्क्य एव हि |
विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः || ३०||

छादयित्वात्मभावं हि चरन्ति शठबुद्धयः |
प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान्भवेत् || ३१||

अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह |
गुणतः सङ्ग्रहं कुर्याद्दोषतस्तु विसर्जयेत् || ३२||

यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् |
गुणान्वापि बहूञ्ज्ञात्वा सङ्ग्रहः क्रियतां नृप || ३३||

शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत् |
क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् || ३४||

प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना |
परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः || ३५||

जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः |
वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् || ३६||

बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः |
अदेश काले सम्प्राप्तः सर्वथा शङ्क्यताम् अयम् || ३७||

ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः |
वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् || ३८||

वचनं नाम तस्यैष रावणस्य विभीषणः |
पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर || ३९||

भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि |
यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ || ४०||

अथ संस्कारसम्पन्नो हनूमान्सचिवोत्तमः |
उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु || ४१||

न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम् |
अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् || ४२||

न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः |
वक्ष्यामि वचनं राजन्यथार्थं रामगौरवात् || ४३||

अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव |
तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते || ४४||

ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते |
सहसा विनियोगो हि दोषवान्प्रतिभाति मे || ४५||

चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव |
अर्थस्यासम्भवात्तत्र कारणं नोपपद्यते || ४६||

अदेश काले सम्प्राप्त इत्ययं यद्विभीषणः |
विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति || ४७||

स एष देशः कालश्च भवतीह यथा तथा |
पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि || ४८||

दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि |
युक्तमागमनं तस्य सदृशं तस्य बुद्धितः || ४९||

अज्ञातरूपैः पुरुषैः स राजन्पृच्छ्यताम् इति |
यदुक्तमत्र मे प्रेक्षा का चिदस्ति समीक्षिता || ५०||

पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान्वचः |
तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम् || ५१||

अशक्यः सहसा राजन्भावो वेत्तुं परस्य वै |
अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् || ५२||

न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता |
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः || ५३||

अशङ्कितमतिः स्वस्थो न शठः परिसर्पति |
न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः || ५४||

आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम् |
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् || ५५||

देशकालोपपन्नं च कार्यं कार्यविदां वर |
सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् || ५६||

उद्योगं तव सम्प्रेक्ष्य मिथ्यावृत्तं च रावणम् |
वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् || ५७||

राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः |
एतावत्तु पुरस्कृत्य युज्यते त्वस्य सङ्ग्रहः || ५८||

यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति |
त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर || ५९||

59

323

Vibhishana together with four of his ministers reach the Northern tip of the ocean. Standing in the sky, Vibhishana asks Shri Rama to give a refuge to him. Sugriva advices Shri Rama not to trust Vibhishana, who is a demon. 

Then, Shri Rama calls for opinion of the leaders in his group. Angada, Sharabha, Jambavan and Mainda express their opinions/doubts in giving refuge to Vibhishana. 

Shri Hanuman opines that Vibhishana may not be doubted because Vibhishana might have assessed the merits/strength of Shri Rama vis-à-vis Ravana. Shri Hanuman adds that Vibhishana might have heard of elimination of Vali by Shri Rama, and making Sugreeva as the king of Vanaras, and thus, might have been approaching Shri Rama with a desire of become the king of demons in Lanka, when Ravana is eliminated. Thus, Shri Hanuman recommends to Shri Rama to take his final decision on the matter, pondering over all the issues.

18

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह |
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् || १||

ममापि तु विवक्षास्ति का चित्प्रति विभीषणम् |
श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः || २||

मित्रभावेन सम्प्राप्तं न त्यजेयं कथं चन |
दोषो यद्यपि तस्य स्यात्सताम् एतदगर्हितम् || ३||

रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः |
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः || ४||

किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे |
यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सपथे स्थितः || ५||

मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम् |
अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः || ६||

तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव |
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः || ७||

स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च |
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् || ८||

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः |
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन || ९||

पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् |
अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर || १०||

श्रूयते हि कपोतेन शत्रुः शरणमागतः |
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः || ११||

स हि तं प्रतिजग्राह भार्या हर्तारमागतम् |
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः || १२||

ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा |
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना || १३||

बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् |
न हन्यादानृशंस्यार्थमपि शत्रुं परं पत || १४||

आर्तो वा यदि वा दृप्तः परेषां शरणं गतः |
अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना || १५||

स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति |
स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम् || १६||

विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः |
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः || १७||

एवं दोषो महानत्र प्रपन्नानामरक्षणे |
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् || १८||

करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् |
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये || १९||

सकृदेव प्रपन्नाय तवास्मीति च याचते |
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम || २०||

आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया |
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् || २१||

ततस्तु सुग्रीववचो निशम्य तद्
धरीश्वरेणाभिहितं नरेश्वरः |
विभीषणेनाशु जगाम सङ्गमं
पतत्रिराजेन यथा पुरन्दरः || २२||

22

345

After carefully listening to the suggestions of all important warriors, Shri Rama says that he cannot abandon Vibhishana, who is seeking a refuge in him. Shri Rama explains the different circumstances under which Vibhishana is acceptable, Sugreeva also agrees with that view and communicates Shri Rama’s consent to Vibhishana to join as an associate.

इत्यार्षे श्री रामायणे युद्धकाण्डे चतुर्थ: भाग:

 

Yuddhakāṇḍa Part-3

Yuddhakāṇḍa Part-5

 

 

No comments:

Post a Comment