Friday, January 9, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३१ ;;; Part – 31)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ३१ ;;; Part – 31)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

113

रावणं निहतं श्रुत्वा राघवेण महात्मना |
अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः || १||

वार्यमाणाः सुबहुशो वृष्टन्त्यः क्षितिपांसुषु |
विमुक्तकेश्यो दुःखार्ता गावो वत्सहता यथा || २||

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः |
प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् || ३||

आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः |
परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् || ४||

ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः |
करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः || ५||

ददृशुस्ता महाकायं महावीर्यं महाद्युतिम् |
रावणं निहतं भूमौ नीलाञ्जनचयोपमम् || ६||

ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु |
निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव || ७||

बहुमानात्परिष्वज्य का चिदेनं रुरोद ह |
चरणौ का चिदालिङ्ग्य का चित्कण्ठेऽवलम्ब्य च || ८||

उद्धृत्य च भुजौ का चिद्भूमौ स्म परिवर्तते |
हतस्य वदनं दृष्ट्वा का चिन्मोहमुपागमत् || ९||

का चिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती |
स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् || १०||

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि |
चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् || ११||

येन वित्रासितः शक्रो येन वित्रासितो यमः |
येन वैश्रवणो राजा पुष्पकेण वियोजितः || १२||

गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् |
भयं येन महद्दत्तं सोऽयं शेते रणे हतः || १३||

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा |
न भयं यो विजानाति तस्येदं मानुषाद्भयम् || १४||

अवध्यो देवतानां यस्तथा दानवरक्षसाम् |
हतः सोऽयं रणे शेते मानुषेण पदातिना || १५||

यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा |
सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्त्येन लम्भितः || १६||

एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः |
भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः || १७||

अशृण्वता तु सुहृदां सततं हितवादिनाम् |
एताः सममिदानीं ते वयमात्मा च पातिताः || १८||

ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः |
धृष्टं परुषितो मोहात्त्वयात्मवधकाङ्क्षिणा || १९||

यदि निर्यातिता ते स्यात्सीता रामाय मैथिली |
न नः स्याद्व्यसनं घोरमिदं मूलहरं महत् || २०||

वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् |
वयं चाविधवाः सर्वाः सकामा न च शत्रवः || २१||

त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् |
राक्षसा वयमात्मा च त्रयं तुलं निपातितम् || २२||

न कामकारः कामं वा तव राक्षसपुङ्गव |
दैवं चेष्टयते सर्वं हतं दैवेन हन्यते || २३||

वानराणां विनाशोऽयं राक्षसानां च ते रणे |
तव चैव महाबाहो दैवयोगादुपागतः || २४||

नैवार्थेन न कामेन विक्रमेण न चाज्ञया |
शक्या दैवगतिर्लोके निवर्तयितुमुद्यता || २५||

विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः |
कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः || २६||

26

3191

All the wives of Ravana arrive to the battlefield and lament, recollecting the valour of Ravana.  They were surprised as to how he, being the defeater of Indra, Yakshas, Gandharvas, etc, was killed by an ordinary mortal. They felt that, had Seetha been restored to Shri Rama, Ravana could have averted this type of disastrous death.

114

एतस्मिन्नन्तरे रामो विभीषणमुवाच ह |
संस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय || १||

तं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः |
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः |
रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत || २||

त्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा |
नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् || ३||

भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः |
रावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् || ४||

नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि |
श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः || ५||

तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः |
विभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् || ६||

तवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् |
अवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर || ७||

अधर्मानृतसंयुक्तः काममेष निशाचरः |
तेजस्वी बलवाञ्शूरः सङ्ग्रामेषु च नित्यशः || ८||

शतक्रतुमुखैर्देवैः श्रूयते न पराजितः |
महात्मा बलसम्पन्नो रावणो लोकरावणः || ९||

मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् |
क्रियतामस्य संस्कारो ममाप्येष यथा तव || १०||

त्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् |
क्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि || ११||

राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः |
संस्कारेणानुरूपेण योजयामास रावणम् || १२||

स ददौ पावकं तस्य विधियुक्तं विभीषणः |
ताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः || १३||

प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः |
रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् || १४||

रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः |
हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः || १५||

15

3206

Shri Rama asks Vibhishana to perform final rites to Ravana. Initially, Vibhishana was not willing to perform the last rites, as Ravana was an unrighteous person. However, Shri Rama states that with the honourable death of Ravana in the battlefield, enmity should end and convinces him to perform the final rites to Ravana. Then, Vibhishana performs the funeral rites of Ravana.

115

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

  

117

 

 

 

 

ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः |
जग्मुस्तैस्तैर्विमानैः स्वैः कथयन्तः शुभाः कथाः || १||

रावणस्य वधं घोरं राघवस्य पराक्रमम् |
सुयुद्धं वानराणां च सुग्रीवसय्च मन्त्रितम् || २||

अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च |
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् || ३||

राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् |
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् || ४||

राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः |
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः || ५||

तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे |
राघवः परमप्रीतः सुग्रीवं परिषस्वजे || ६||

परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः |
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् || ७||

अब्रवीच्च तदा रामः समीपपरिवर्तिनम् |
सौमित्रिं सत्त्वसम्पन्नं लक्ष्मणं दीप्ततेजसं || ८||

विभीषणमिमं सौम्य लङ्कायामभिषेचय |
अनुरक्तं च भक्तं च मम चैवोपकारिणम् || ९||

एष मे परमः कामो यदिमं रावणानुजम् |
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् || १०||

एवमुक्तस्तु सौमित्री राघवेण महात्मना |
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे || ११||

घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् |
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् || १२||

अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् |
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः || १३||

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् |
राघवः परमां प्रीतिं जगाम सहलक्ष्मणः || १४||

स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः |
प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् || १५||

अक्षतान्मोदकाँल्लाजान्दिव्याः सुमनसस्तथा |
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः || १६||

स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् |
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् || १७||

कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् |
प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया || १८||

उवाच मेघसङ्काशं विभीषणमुपस्थितम् |

दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् |

इह सीतां शिरःस्नातामुपस्थापय माचिरम् || १९||

एवमुक्तस्तु रामेण त्वरमाणो विभीषणः |

प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् || २०||

दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता |

यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति || २१||

एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् |

अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप || २२||

तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः |

यथाहं रामो भर्ता ते तत्तथा कर्तुमर्हसि || २३||

तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता |

भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत || २४||

ततः सीतां शिरःस्नातां युवतीभिरलङ्कृताम् |

महार्हाभरणोपेतां महार्हाम्बरधारिणीम् || २५||

आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् |

रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः || २६||

26

3232

Matali, Indra's charioteer leaves the battle-field and returns to his heaven. Then, Shri Rama instructs Lakshmana to arrange for the installation of Vibhishana as the king of Lanka. Lakshmana gets the coronation ritual of Vibhishana completed, as the King of Lanka, in the presence of the demons there. 

After, Vibhishana’s coronation, Shri Rama directs Vibhishana to bring Seeta after her getting bathed, anointed with charming cosmetics and adorned with beautiful jewels. Then, Vibhishana, as directed by Shri Rama, brings Seetha to Shri Rama's presence.

123

रावणम् निहतं पश्चात् शक्रः तत्र समुपागत्।

अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् || १||

अमोघं दर्शनं राम तवास्माकं परन्तप |
प्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि || २||

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः |
लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया || ३||

यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर |
वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर || ४||

मम हेतोः पराक्रान्ता ये गता यमसादनम् |
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः || ५||

मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च |
त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे || ६||

नीरुजान्निर्व्रणांश्चैव सम्पन्नबलपौरुषान् |
गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद || ७||

अकाले चापि मुख्यानि मूलानि च फलानि च |
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः || ८||

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः |
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् || ९||

महानयं वरस्तात त्वयोक्तो रघुनन्दन |
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा || १०||

सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनेन च |
सर्व एव समेष्यन्ति संयुक्ताः परया मुदा || ११||

अकाले पुष्पशबलाः फलवन्तश्च पादपाः |
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः || १२||

सव्रणैः प्रथमं गात्रैः संवृतैर्निव्रणैः पुनः |
बभूवुर्वानराः सर्वे किमेतदिति विस्मितः || १३||

13

3245

After the death of Ravana, Indra, the king of celestials appeared there.  Shri Rama stands before him with folded hands. When Indra asks Shri Rama for a boon, Shri Rama requested Indra to bring back to life, all the vanaras who had lost their life in the battle. Indra grants the boon and all the dead vanaras were restored to life.

इत्यार्षे श्री रामायणे युद्धकाण्डे  एकत्रिंशतिः भाग:

 

Yuddhakāṇḍa Part-30

Yuddhakāṇḍa Part-32

 

No comments:

Post a Comment