Monday, January 5, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ५ ;;; Part – 5)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 5)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

19

राघवेणाभये दत्ते संनतो रावणानुजः |
खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह || १||

स तु रामस्य धर्मात्मा निपपात विभीषणः |
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः || २||

अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः |
धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् || ३||

अनुजो रावणस्याहं तेन चास्म्यवमानितः |
भवन्तं सर्वभूतानां शरण्यं शरणं गतः || ४||

परित्यक्ता मया लङ्का मित्राणि च धनानि च |
भवद्गतं मे राज्यं च जीवितं च सुखानि च || ५||

राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे |
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् || ६||

इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् |
अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय || ७||

तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् |
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद || ८||

एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् |
मध्ये वानरमुख्यानां राजानं रामशासनात् || ९||

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः |
प्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन् || १०||

अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् |
कथं सागरमक्षोभ्यं तराम वरुणालयम् || ११||

उपायैरभिगच्छामो यथा नदनदीपतिम् |
तराम तरसा सर्वे ससैन्या वरुणालयम् || १२||

एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः |
समुद्रं राघवो राजा शरणं गन्तुमर्हति || १३||

खानितः सगरेणायमप्रमेयो महोदधिः |
कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः || १४||

एवं विभीषणेनोक्ते राक्षसेन विपश्चिता |
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत || १५||

स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् |
सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह || १६||

विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते |
ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते || १७||

सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः |
उभाभ्यां सम्प्रधार्यार्यं रोचते यत्तदुच्यताम् || १८||

एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ |
समुदाचार संयुक्तमिदं वचनमूचतुः || १९||

किमर्थं नो नरव्याघ्र न रोचिष्यति राघव |
विभीषणेन यत्तूक्तमस्मिन्काले सुखावहम् || २०||

अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये |
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः || २१||

विभीषणस्य शूरस्य यथार्थं क्रियतां वचः |
अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् || २२||

एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः |
संविवेश तदा रामो वेद्यामिव हुताशनः || २३||

23

368

Alighting from the sky, Vibhishana seeks refuge in Shri Rama’s camp. On Shri Rama's enquiry, he explained about the boons Ravana got from Brahma and the strengths of important warriors on the side of Ravana. Shri Rama promises to kill Ravana and Lakshmana, upon the direction of Shri Rama, anoints Vibhishana as the King of Lanka with the ocean waters. 

Vibhishana advices Shri Rama pray to the ocean god for giving way to his army to reach the city of Lanka.  Agreeing to that proposal Shri Rama sits on the sea -shore, seeking the help of the ocean god.

21

तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले |
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः || १||

न च दर्शयते मन्दस्तदा रामस्य सागरः |
प्रयतेनापि रामेण यथार्हमभिपूजितः || २||

समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः |
समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम् || ३||

पश्य तावदनार्यस्य पूज्यमानस्य लक्ष्मण |
अवलेपं समुद्रस्य न दर्शयति यत्स्वयम् || ४||

प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता |
असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः || ५||

आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् |
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् || ६||

न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः |
प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि || ७||

अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् |
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः || ८||

महाभोगानि मत्स्यानां करिणां च करानिह |
भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण || ९||

सशङ्खशुक्तिका जालं समीनमकरं शरैः |
अद्य युद्धेन महता समुद्रं परिशोषये || १०||

क्षमया हि समायुक्तं मामयं मकरालयः |
असमर्थं विजानाति धिक्क्षमामीदृशे जने || ११||

चापमानय सौमित्रे शरांश्चाशीविषोपमान् |
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् || १२||

वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् |
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् || १३||

एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः |
बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् || १४||

सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् |
मुमोच विशिखानुग्रान्वज्राणीव शतक्रतुः || १५||

ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः |
प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् || १६||

ततो वेगः समुद्रस्य सनक्रमकरो महान् |
सम्बभूव महाघोरः समारुतरवस्तदा || १७||

महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः |
सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः || १८||

व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः |
दानवाश्च महावीर्याः पातालतलवासिनः || १९||

ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा |
विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः || २०||

आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः |
उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः || २१||

21

389

When the ocean god did not appear even after Shri Rama’s fast unto death resolve for 3 days, Shri Rama shots arrows on the ocean, which creates havoc in the ocean.

22

ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः |
उदयन्हि महाशैलान्मेरोरिव दिवाकरः |
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत || १||

स्निग्धवैदूर्यसङ्काशो जाम्बूनदविभूषितः |
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः || २||

सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् |
अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् || ३||

पृथिवी वायुराकाशमापो ज्योतिश्च राघवः |
स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः || ४||

तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः |
विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम् || ५||

न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज |
ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन || ६||

विधास्ये राम येनापि विषहिष्ये ह्यहं तथा |
ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति || ७||

अयं सौम्य नलो नाम तनुजो विश्वकर्मणः |
पित्रा दत्तवरः श्रीमान्प्रतिमो विश्वकर्मणः || ८||

एष सेतुं महोत्साहः करोतु मयि वानरः |
तमहं धारयिष्यामि तथा ह्येष यथा पिता || ९||

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः |
अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः || १०||

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये |
पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः || ११||

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा |
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा || १२||

न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् |
काममद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः || १३||

ततो निसृष्टरामेण सर्वतो हरियूथपाः |
अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः || १४||

ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः |
बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् || १५||

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः |
कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि || १६||

बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः |
चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् || १७||

समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः |
इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् || १८||

प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम् |
समुत्पतितमाकाशमपासर्पत्ततस्ततः || १९||

दशयोजनविस्तीर्णं शतयोजनमायतम् |
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः || २०||

शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् |
बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ || २१||

स नलेन कृतः सेतुः सागरे मकरालये |
शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे || २२||

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः || २३||

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः |
तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् |
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् || २४||

तानि कोटिसहस्राणि वानराणां महौजसाम् |
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः || २५||

विशालः सुकृतः श्रीमान्सुभूमिः सुसमाहितः |
अशोभत महासेतुः सीमन्त इव सागरे || २६||

ततः परे समुद्रस्य गदापाणिर्विभीषणः |
परेषामभिघतार्थमतिष्ठत्सचिवैः सह || २७||

अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः |
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः || २८||

अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः |
सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे |
के चिद्वैहायस गताः सुपर्णा इव पुप्लुवुः || २९||

घोषेण महता घोषं सागरस्य समुच्छ्रितम् |
भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी || ३०||

वानराणां हि सा तीर्णा वाहिनी नल सेतुना |
तीरे निविविशे राज्ञा बहुमूलफलोदके || ३१||

तदद्भुतं राघव कर्म दुष्करं
समीक्ष्य देवाः सह सिद्धचारणैः |
उपेत्य रामं सहिता महर्षिभिः
समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् || ३२||

जयस्व शत्रून्नरदेव मेदिनीं
ससागरां पालय शाश्वतीः समाः |
इतीव रामं नरदेवसत्कृतं
शुभैर्वचोभिर्विविधैरपूजयन् || ३३||

33

422

When Shri Rama finally aims Brahmastra on ocean, to dry up the entire ocean, Ocean god appears and says that he cannot control the movement of the waters, as are other Natural forces like FIRE, WIND, etc, as it was decided by the BRAHMA.

He then suggests to Shri Rama to use the services of Nala, the son of Vishwakarma and a Vanara in the Sugreeva’s army, who has the capacity to build a bridge on ocean and that he would see that that bridge does not collapse till the to and fro journeys of Vanara army is not completed. The bridge was constructed and Shri Rama and the vanaras army reach the Lanka

25

सबले सागरं तीर्णे रामे दशरथात्मजे |
अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ || १||

समग्रं सागरं तीर्णं दुस्तरं वानरं बलम् |
अभूतपूर्वं रामेण सागरे सेतुबन्धनम् || २||

सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन |
अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् || ३||

भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ |
परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः || ४||

मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः |
ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः || ५||

स च सेतुर्यथा बद्धः सागरे सलिलार्णवे |
निवेशश्च यथा तेषां वानराणां महात्मनाम् || ६||

रामस्य व्यवसायं च वीर्यं प्रहरणानि च |
लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ || ७||

कश्च सेनापतिस्तेषां वानराणां महौजसाम् |
एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः || ८||

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ |
हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् || ९||

ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् |
सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ || १०||

तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च |
समुद्रस्य च तीरेषु वनेषूपवनेषु च || ११||

तरमाणं च तीर्णं च तर्तुकामं च सर्वशः |
निविष्टं निविशच्चैव भीमनादं महाबलम् || १२||

तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः |
आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ |
लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जयौ || १३||

तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा |
कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः || १४||

आवामिहागतौ सौम्य रावणप्रहितावुभौ |
परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन || १५||

तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः |
अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः || १६||

यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः |
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् || १७||

प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः |
वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम || १८||

यद्बलं च समाश्रित्य सीतां मे हृतवानसि |
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः || १९||

श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम् |
राक्षसं च बलं पश्य शरैर्विध्वंसितं मया || २०||

घोरं रोषमहं मोक्ष्ये बलं धारय रावण |
श्वःकाले वज्रवान्वज्रं दानवेष्विव वासवः || २१||

इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ |
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् || २२||

विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर |
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा || २३||

एकस्थानगता यत्र चत्वारः पुरुषर्षभाः |
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः || २४||

रामो दाशरथिः श्रीमाँल्लक्ष्मणश्च विभीषणः |
सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः || २५||

एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम् |
उत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः || २६||

यादृशं तस्य रामस्य रूपं प्रहरणानि च |
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः || २७||

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी |
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः || २८||

प्रहृष्टरूपा ध्वजिनी वनौकसां
महात्मनां सम्प्रति योद्धुमिच्छताम् |
अलं विरोधेन शमो विधीयतां
प्रदीयतां दाशरथाय मैथिली || २९||

29

451

Ravana instructs his ministers, Shuka and Saarana to enter the enemy's army and to inform him the strength of the Shri Rama’s army. Shuka and Saarana enter the enemy's army in the form of Vanaras, and get astonished with the vast powerful army of Vanaras. 

Vibhishana recognises and present them before Shri Rama. However, Shri Rama allow them to go free and convey his final message to Ravana. They both go back to Ravana, and explained the strength of the enemy's army and recommend to him to restore Seetha to Shri Rama.

इत्यार्षे श्री रामायणे युद्धकाण्डे पञ्चम: भाग:

 

Yuddhakāṇḍa Part-4

Yuddhakāṇḍa Part-6

No comments:

Post a Comment