युद्धकाण्ड - Yuddhakāṇḍa (भाग - ६ ;;; Part – 6)
|
Sarga
number as per Ramayana |
Shlokas
extracted |
No. of shlokas |
Cumulative number of shlokas in this
Kanda |
|
26 |
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् | यदि
मामभियुञ्जीरन्देवगन्धर्वदानवाः | त्वं
तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् | इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः | ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः | तदपारमसङ्ख्येयं वानराणां महद्बलम् | एषां
वानरमुख्यानां के शूराः के महाबलाः | केषां
शृणोति सुग्रीवः के वा यूथपयूथपाः | सारणो
राक्षसेन्द्रस्य वचनं परिपृच्छतः | एष
योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः | यस्य
घोषेण महता सप्राकारा सतोरणा | सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः | बाहू
प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् | गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः | यस्य
लाङ्गूलशब्देन स्वनन्तीव दिशो दश | ये
तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च | एते
दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः | य
एनमनुगच्छन्ति वीराश्चन्दनवासिनः | श्वेतो रजतसङ्काशः सबलो भीमविक्रमः | तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः | यः
पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् | तत्र
राज्यं प्रशास्त्येष कुमुदो नाम यूथपः | यस्य
वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः | अदीनो
रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति | यस्त्वेष सिंहसङ्काशः कपिलो दीर्घकेसरः | विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् | शतं
शतसहस्राणां त्रिंशच्च हरियूथपाः | यस्तु
कर्णौ विवृणुते जृम्भते च पुनः पुनः | महाबलो वीतभयो रम्यं साल्वेय पर्वतम् | एतस्य
बलिनः सर्वे विहारा नाम यूथपाः | यस्तु
मेघ इवाकाशं महानावृत्य तिष्ठति | भेरीणामिव संनादो यस्यैष श्रूयते महान् | एष
पर्वतमध्यास्ते पारियात्रमनुत्तमम् | एनं
शतसहस्राणां शतार्धं पर्युपासते | यस्तु
भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् | एष
दर्दरसङ्काशो विनतो नाम यूथपः | षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः | यस्तु
गैरिकवर्णाभं वपुः पुष्यति वानरः | एनं
शतसहस्राणि सप्ततिः पर्युपासते | एते
दुष्प्रसहा घोरा बलिनः कामरूपिणः | |
40 |
491 |
|
Hearing the message
of Shuka and Saarana, Ravana climbs up the roof of his palace and sees the
entire army of monkeys from there. Ravana enquires about the various Vanara
leaders. Saarana shows him Nila,
Angada, Nala, Shweta, Kumuda, Rambha, Sarabha, Panasa, Vinata, etc, and their
respective strengths. |
|||
|
27 |
तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् | स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः | प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः | यं
पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः | एष
कोटीसहस्रेण वानराणां महौजसाम् | नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि | नखदंष्ट्रायुधान्वीरांस्तीक्ष्णकोपान्भयावहान् | पर्वतेषु च ये के चिद्विषमेषु नदीषु च | एषां
मध्ये स्थितो राजन्भीमाक्षो भीमदर्शनः | ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् | यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् | स
एष जाम्बवान्नाम महायूथपयूथपः | एतेन
साह्यं सुमहत्कृतं शक्रस्य धीमता | आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः | राक्षसानां च सदृशाः पिशाचानां च रोमशाः | यं
त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् | एष
राजन्सहस्राक्षं पर्युपास्ते हरीश्वरः | यः
स्थितं योजने शैलं गच्छन्पार्श्वेन सेवते | यस्मान्न परमं रूपं चतुष्पादेषु विद्यते | येन
युद्धं तदा दत्तं रणे शक्रस्य धीमता | एष
गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना | यस्य
वैश्रवणो राजा जम्बूमुपनिषेवते | विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप | वृतः
कोटिसहस्रेण हरीणां समुपस्थितः | यो
गङ्गामनु पर्येति त्रासयन्हस्तियूथपान् | एष
यूथपतिर्नेता गच्छन्गिरिगुहाशयः | उशीर
बीजमाश्रित्य पर्वतं मन्दरोपमम् | एनं
शतसहस्राणां सहस्रमभिवर्तते | वातेनेवोद्धतं मेघं यमेनमनुपश्यसि | एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः | गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् | भ्रमराचरिता यत्र सर्वकामफलद्रुमाः | यस्य
भासा सदा भान्ति तद्वर्णा मृगपक्षिणः | तत्रैष रमते राजन्रम्ये काञ्चनपर्वते | षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः | तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः | सिंह
इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः | सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः | एष
चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् | गजो
गवाक्षो गवयो नलो नीलश्च वानरः | तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः | सर्वे
महाराज महाप्रभावाः |
42 |
533 |
|
Continuing his
narration on the strengths of various Vanara army leaders, Saarana mentions
about Hara, Dhuumra, Jambavan, Dambha, Sannaadana, Krathana, Pramaathi,
Gavaaksha, Kesari, Shatavali. |
|||
|
28 |
सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम् | स्थितान्पश्यसि यानेतान्मत्तानिव महाद्विपान् | एते
दुष्प्रसहा राजन्बलिनः कामरूपिणः | एषां
कोटिसहस्राणि नव पञ्चच सप्त च | एते
सुग्रीवसचिवाः किष्किन्धानिलयाः सदा | यौ
तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ | ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ | यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ | यं
तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम् | एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो | ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः | कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः | उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः | आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति | अनाधृष्यतमं देवमपि देवर्षिदानवैः | पतितस्य कपेरस्य हनुरेका शिलातले | सत्यमागमयोगेन ममैष विदितो हरिः | एष
आशंसते लङ्कामेको मर्दितुमोजसा | इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः | यो
ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः | यस्य
मृत्योरिव क्रोधः शक्रस्येव पराक्रमः | यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः | एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः | अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान्बली | न
ह्येष राघवस्यार्थे जीवितं परिरक्षति | यस्तु
सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति | श्रीमता राजराजेन लङ्कायामभिषेचितः | यं
तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम् | तेजसा
यशसा बुद्ध्या ज्ञानेनाभिजनेन च | किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम् | यस्यैषा काञ्चनी माला शोभते शतपुष्करा | एतां
च मालां तारां च कपिराज्यं च शाश्वतम् | एवं
कोटिसहस्रेण शङ्कूनां च शतेन च | इमां
महाराजसमीक्ष्य वाहिनीम् |
34 |
567 |
|
Shuka in his turn supplements
with the details of remaining enemies, ie., Twin brothers Mainda and Dwivida,
Shri Hanuman, Shri Rama and Lakshmana, Vibhishana and his ministers, Sugreeva,
the king of Vanaras. |
|||
इत्यार्षे श्री
रामायणे युद्धकाण्डे षष्ठ: भाग:
No comments:
Post a Comment