Monday, January 5, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ७ ;;; Part – 7)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 7)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

29

शुकेन तु समाख्यातांस्तान्दृष्ट्वा हरियूथपान् |
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् || १||

लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् |
सर्ववानरराजं च सुग्रीवं भीमविक्रमम् || २||

किं चिदाविग्नहृदयो जातक्रोधश्च रावणः |
भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ || ३||

अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ |
रोषगद्गदया वाचा संरब्धः परुषं वचः || ४||

न तावत्सदृशं नाम सचिवैरुपजीविभिः |
विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः || ५||

रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् |
उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् || ६||

आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः |
सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते || ७||

गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते |
ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् || ८||

किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः |
यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् || ९||

अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः |
राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः || १०||

हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ |
यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत् || ११||

अपध्वंसत गच्छध्वं संनिकर्षादितो मम |
न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम् |
हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ || १२||

एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ |
रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ || १३||

अब्रवीत्स दशग्रीवः समीपस्थं महोदरम् |
उपस्थापय शीघ्रं मे चारान्नीतिविशारदान् || १४||

ततश्चराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात् |
उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा || १५||

तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः |
चारान्प्रत्ययिकाञ्शूरान्भक्तान्विगतसाध्वसान् || १६||

इतो गच्छत रामस्य व्यवसायं परीक्षथ |
मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः || १७||

कथं स्वपिति जागर्ति किमन्यच्च करिष्यति |
विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः || १८||

चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः |
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते || १९||

चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् |
कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः || २०||

ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ |
प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ || २१||

ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः |
विभीषणेन तत्रस्था निगृहीता यदृच्छया || २२||

वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः |
पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः || २३||

ततो दशग्रीवमुपस्थितास्ते
चारा बहिर्नित्यचरा निशाचराः |
गिरेः सुवेलस्य समीपवासिनं
न्यवेदयन्भीमबलं महाबलाः || २४||

24

591

Ravana reproaches Shuka and Sarana for their praise of enemy’s strengths and ask them to leave. He again sends some trusted spies to the enemy camp to have a first-hand information. Those spies Shaardula and others were got caught by Vibhishana and the Vanaras start harassing them. However, Shri Rama gets them released and the spies return to Lanka.

30

ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः |
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् || १||

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् |
जातोद्वेगोऽभवत्किं चिच्छार्दूलं वाक्यमब्रवीत् || २||

अयथावच्च ते वर्णो दीनश्चासि निशाचर |
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः || ३||

इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् |
तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः || ४||

न ते चारयितुं शक्या राजन्वानरपुङ्गवाः |
विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः || ५||

नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते |
सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः || ६||

प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते |
बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः || ७||

जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् |
परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः || ८||

परिणीय च सर्वत्र नीतोऽहं रामसंसदम् |
रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः || ९||

हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः |
राघवेण परित्रातो जीवामि ह यदृच्छया || १०||

10

601

Shaardula and the other spies informed the king Ravana about the strength of the army in the Shri Rama’s camp.

31

ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः |
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् || १||

चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् |
जातोद्वेगोऽभवत्किं चित्सचिवांश्चेदमब्रवीत् || २||

मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः |
अयं नो मन्त्रकालो हि सम्प्राप्त इव राक्षसाः || ३||

तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् |
ततः संमन्त्रयामास सचिवै राक्षसैः सह || ४||

मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् |
विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् || ५||

ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् |
मायाविदं महामायः प्राविशद्यत्र मैथिली || ६||

विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः |
मोहयिष्यामहे सीतां मायया जनकात्मजाम् || ७||

शिरो मायामयं गृह्य राघवस्य निशाचर |
मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः || ८||

एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः |
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् || ९||

अशोकवनिकायां तु प्रविवेश महाबलः |
ततो दीनामदैन्यार्हां ददर्श धनदानुजः |
अधोमुखीं शोकपरामुपविष्टां महीतले || १०||

भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् |
उपास्यमानां घोराभी राक्षसीभिरदूरतः || ११||

उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् |
इदं च वचनं धृष्टमुवाच जनकात्मजाम् || १२||

सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे |
खर हन्ता स ते भर्ता राघवः समरे हतः || १३||

छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया |
व्यसनेनात्मनः सीते मम भार्या भविष्यसि || १४||

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि |
शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा || १५||

समायातः समुद्रान्तं मां हन्तुं किल राघवः |
वानरेन्द्रप्रणीतेन बलेन महता वृतः || १६||

संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् |
बलेन महता रामो व्रजत्यस्तं दिवाकरे || १७||

अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् |
सुखसुप्तं समासाद्य चारितं प्रथमं चरैः || १८||

तत्प्रहस्तप्रणीतेन बलेन महता मम |
बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः || १९||

पट्टसान्परिघान्खड्गांश्चक्रान्दण्डान्महायसान् |
बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् || २०||

यष्टीश्च तोमरान्प्रासंश्चक्राणि मुसलानि च |
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः || २१||

अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना |
असक्तं कृतहस्तेन शिरश्छिन्नं महासिना || २२||

विभीषणः समुत्पत्य निगृहीतो यदृच्छया |
दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह || २३||

सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः |
निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः || २४||

जाम्बवानथ जानुभ्याम् उत्पतन्निहतो युधि |
पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा || २५||

मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ |
निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ || २६||

असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः |
अभिष्टनति मेदिन्यां पनसः पनसो यथा || २७||

नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः |
कुमुदस्तु महातेजा निष्कूजन्सायकैर्हतः || २८||

अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः |
पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः || २९||

हरयो मथिता नागै रथजालैस्तथापरे |
शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः || ३०||

प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः |
अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः || ३१||

सागरे पतिताः के चित्के चिद्गगनमाश्रिताः |
ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः || ३२||

सागरस्य च तीरेषु शैलेषु च वनेषु च |
पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः || ३३||

एवं तव हतो भर्ता ससैन्यो मम सेनया |
क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः || ३४||

ततः परमदुर्धर्षो रावणो राक्षसेश्वरः |
सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् || ३५||

राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय |
येन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम् || ३६||

विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् |
प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः || ३७||

तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् |
विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् || ३८||

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः |
अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु || ३९||

एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् |
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत || ४०||

रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् |
त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह || ४१||

इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् |
इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् || ४२||

स विद्युज्जिह्वेन सहैव तच्छिरो
धनुश्च भूमौ विनिकीर्य रावणः |
विदेहराजस्य सुतां यशस्विनीं
ततोऽब्रवीत्तां भव मे वशानुगा || ४३||

43

644

Ravana had discussion with his ministers about impending war. He orders Vidyujjihvha, knower of conjuring tricks, to create illusionary head of Shri Rama and his great bow and to bring to Ashoka Garden. 

Then, Ravana approaches Seetha and informs her that her husband Shri Rama was beheaded when he had been sleeping and his army had run away and orders Vidyujjihvha to place the illusionary head of Shri Rama and his great bow before Seeta. Vidyujjihvha places those illusionary articles before Seeta. Thus, Ravana deceives Seetha about the death of Shri Rama.

इत्यार्षे श्री रामायणे युद्धकाण्डे सप्तम: भाग:

 

Yuddhakāṇḍa Part-6

Yuddhakāṇḍa Part-8

 

No comments:

Post a Comment