Tuesday, January 6, 2026

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ८ ;;; Part – 8)

 

युद्धकाण्ड - Yuddhakāṇḍa (भाग - ;;; Part – 8)

Sarga number as per Ramayana

Shlokas extracted

No. of shlokas

Cumulative number of shlokas in this Kanda

32

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् |
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता || १||

नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम् |
केशान्केशान्तदेशं च तं च चूडामणिं शुभम् || २||

एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता |
विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा || ३||

सकामा भव कैकेयि हतोऽयं कुलनन्दनः |
कुलमुत्सादितं सर्वं त्वया कलहशीलया || ४||

आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम् |
यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम् || ५||

एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी |
जगाम जगतीं बाला छिन्ना तु कदली यथा || ६||

सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम् |
तच्छिरः समुपाघ्राय विललापायतेक्षणा || ७||

हा हतास्मि महाबाहो वीरव्रतमनुव्रता |
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता || ८||

प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते |
सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः || ९||

दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे |
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः || १०||

सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव |
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता || ११||

आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम |
अनृतं वचनं तेषामल्पायुरसि राघव || १२||

अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव |
पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम् || १३||

अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् |
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने || १४||

तथा त्वं सम्परिष्वज्य रौद्रयातिनृशंसया |
कालरात्र्या मयाच्छिद्य हृतः कमललोचनः || १५||

उपशेषे महाबाहो मां विहाय तपस्विनीम् |
प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ || १६||

अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव |
इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम् || १७||

पित्रा दशरथेन त्वं श्वशुरेण ममानघ |
पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः || १८||

दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम् |
पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे || १९||

किं मान्न प्रेक्षसे राजन्किं मां न प्रतिभाषसे |
बालां बालेन सम्प्राप्तां भार्यां मां सहचारिणीम् || २०||

संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया |
स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् || २१||

कस्मान्मामपहाय त्वं गतो गतिमतां वर |
अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम् || २२||

कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु |
क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते || २३||

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः |
अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे || २४||

प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम् |
परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा || २५||

स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते |
तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् || २६||

सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् |
हृदयेन विदीर्णेन न भविष्यति राघव || २७||

साधु पातय मां क्षिप्रं रामस्योपरि रावणः |
समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् || २८||

शिरसा मे शिरश्चास्य कायं कायेन योजय |
रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः |
मुहूर्तमपि नेच्छामि जीवितुं पापजीविना || २९||

श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे |
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः || ३०||

क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता |
अहिंसा चैव भूतानां तमृते का गतिर्मम || ३१||

इति सा दुःखसन्तप्ता विललापायतेक्षणा |
भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा || ३२||

एवं लालप्यमानायां सीतायां तत्र राक्षसः |
अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः || ३३||

विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च |
न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् || ३४||

अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः |
किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु || ३५||

एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् |
अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ || ३६||

स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः |
सभां प्रविश्य विदधे विदित्वा रामविक्रमम् || ३७||

अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम् |
जगाम रावणस्यैव निर्याणसमनन्तरम् || ३८||

राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः |
समर्थयामास तदा रामकार्यविनिश्चयम् || ३९||

अविदूरस्थितान्सर्वान्बलाध्यक्षान्हितैषिणः |
अब्रवीत्कालसदृशो रावणो राक्षसाधिपः || ४०||

शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे |
समानयध्वं सैन्यानि वक्तव्यं च न कारणम् || ४१||

ततस्तथेति प्रतिगृह्य तद्वचो
बलाधिपास्ते महदात्मनो बलम् |
समानयंश्चैव समागतं च ते
न्यवेदयन्भर्तरि युद्धकाङ्क्षिणि || ४२||

42

686

Seetha was deeply shocked, and fell unconscious at the sight of Vidyujjihvha’s illusionary articles of Shri Rama's head and his bow. She regained consciousness, wails pitiably and asks Ravana to kill her also, so that she would join her husband in his afterlife journey.

While Seeta was weeping, a messenger informs Ravana that Prahasta, the Commander-in-Chief of the army and other Ministers are waiting for his audience in view of some urgent issue. Then, Ravana leaves that place and after deliberations with his ministers, prepares his army for action against that of Shri Rama. 

The moment Ravana left that place, Vidyujjihvha’s illusionary articles of Shri Rama's head and his bow, had also disappeared.

33

सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी |
आससादाशु वैदेहीं प्रियां प्रणयिनी सखी || १||

सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया |
रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता || २||

सा ददर्श सखीं सीतां सरमा नष्टचेतनाम् |
उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु || ३||

तां समाश्वासयामास सखी स्नेहेन सुव्रता |
उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया || ४||

सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् |
लीनया गनहे शूह्ये भयमुत्सृज्य रावणात् |
तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् || ५||

स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः |
तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि || ६||

न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः |
वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते || ७||

न चैव वानरा हन्तुं शक्याः पादपयोधिनः |
सुरा देवर्षभेणेव रामेण हि सुरक्षिताः || ८||

दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् |
धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः || ९||

विक्रान्तो रक्षिता नित्यमात्मनश् च परस्य च |
लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् || १०||

हन्ता परबलौघानामचिन्त्यबलपौरुषः |
न हतो राघवः श्रीमान्सीते शत्रुनिबर्हणः || ११||

अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना |
इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि || १२||

शोकस्ते विगतः सर्वः कल्याणं त्वाम् उपस्थितम् |
ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु || १३||

उत्तीर्य सागरं रामः सह वानरसेनया |
संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् || १४||

दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः |
सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः || १५||

अनेन प्रेषिता ये च राक्षसा लघुविक्रमः |
राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता || १६||

स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः |
एष मन्त्रयते सर्वैः सचिवैः सह रावणः || १७||

इति ब्रुवाणा सरमा राक्षसी सीतया सह |
सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् || १८||

दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् |
उवाच सरमा सीतामिदं मधुरभाषिणी || १९||

संनाहजननी ह्येषा भैरवा भीरु भेरिका |
भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् || २०||

कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः |
तत्र तत्र च संनद्धाः सम्पतन्ति पदातयः || २१||

आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः |
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः || २२||

शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा |
रथवाजिगजानां च भूषितानां च रक्षसाम् || २३||

प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् |
वनं निर्दहतो धर्मे यथारूपं विभावसोः || २४||

घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम् |
हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा || २५||

उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् |
सम्भ्रमो रक्षसामेष तुमुलो लोमहर्षणः || २६||

श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् |
रामात्कमलपत्राक्षि दैत्यानामिव वासवात् || २७||

अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः |
रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति || २८||

विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः |
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः || २९||

आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् |
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते || ३०||

अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने |
समागम्य परिष्वक्ता तस्योरसि महोरसः || ३१||

अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् |
धृतामेतां बहून्मासान्वेणीं रामो महाबलः || ३२||

तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् |
मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी || ३३||

रावणं समरे हत्वा नचिरादेव मैथिलि |
त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम् || ३४||

समागता त्वं रामेण मोदिष्यसि महात्मना |
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी || ३५||

35

721

After Ravana left the Ashoka Garden, a female demon named Sarama approaches and reassures Seetha by explaining her that Ravana, created an illusory appearance of Shri Rama's head and his bow and exhibited them before her. 

She informs Seetha that Shri Rama is still alive, reached Lanka with his vanara army and is stationed along with his army at the Southern shore of the ocean. 

Just then, the crashing sound of kettle drums from the armies engaged in the impending war was heard.  Sarama asks Seeta to hear carefully those sounds and stated that Ravana hurriedly went out of Ashoka Garden to make preparations for the war. 

Sarama restores confidence to Seetha, by stating that after killing Ravana in battle Shri Rama would regain her.

34

अथ तां जातसन्तापां तेन वाक्येन मोहिताम् |
सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा || १||

ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः |
उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी || २||

उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे |
निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् || ३||

न हि मे क्रममाणाया निरालम्बे विहायसि |
समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा || ४||

एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत् |
मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया || ५||

समर्था गगनं गन्तुमपि वा त्वं रसातलम् |
अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे || ६||

मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव |
ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः || ७||

स हि मायाबलः क्रूरो रावणः शत्रुरावणः |
मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी || ८||

तर्जापयति मां नित्यं भर्त्सापयति चासकृत् |
राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः || ९||

उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम |
तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः || १०||

यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् |
निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः || ११||

सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी |
उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम् || १२||

एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि |
गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् || १३||

एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः |
शुश्राव कथितं तस्य रावणस्य समन्त्रिणः || १४||

सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः |
पुनरेवागमत्क्षिप्रमशोकवनिकां तदा || १५||

सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम् |
प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् || १६||

तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम् |
परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् || १७||

इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः |
क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः || १८||

एवमुक्ता तु सरमा सीतया वेपमानया |
कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः || १९||

जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः |
अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः || २०||

दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली |
निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् || २१||

लङ्घनं च समुद्रस्य दर्शनं च हनूमतः |
वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि || २२||

एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः |
न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा || २३||

नोत्सहत्यमृतो मोक्तुं युद्धे त्वाम् इति मैथिलि |
सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते || २४||

तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता |
भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे |
राक्षसानां च सर्वेषामात्मनश् च वधेन हि || २५||

निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः |
प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे || २६||

एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः |
श्रुतो वै सर्वसैन्यानां कम्पयन्धरणीतलम् || २७||

श्रुत्वा तु तं वानरसैन्यशब्दं
लङ्कागता राक्षसराजभृत्याः |
नष्टौजसो दैन्यपरीतचेष्टाः
श्रेयो न पश्यन्ति नृपस्य दोषैः || २८||

28

749

Sarama further consoles her stating that she could even go to Shri Rama and convey him Seeta’s message. Then, Seetha requests Sarama secretly watch Ravana’s movements and his deliberations so that she can remain without fear. 

Sarama secretly hears the deliberations of Ravana with his ministers and informs to Seetha that Ravana is not inclined to restore her to Shri Rama. Sarama further states that Ravana did not even pay heed to the counsel of his mother and Aviddha, an old  Minister, to restore Seeta to Shri Rama. 

इत्यार्षे श्री रामायणे युद्धकाण्डे अष्टम: भाग:

 

Yuddhakāṇḍa Part-7

Yuddhakāṇḍa Part-9

 

No comments:

Post a Comment